________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८२
चरक-संहिता। __( महारोगः वमनशिरोविरेचनव्यायामादिभिश्च श्लेष्महरर्मात्रां कालञ्च प्रमाणीकूत्य। वमनन्तु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतम मन्यन्ते भिषजः। तद्धि आदित एवामाशयमनुप्रविश्य केवलं वैकारिकश्लेष्ममूलमूद्ध मुरिक्षपति। तत्रावजिते श्लेष्मणि शरीरान्तर्गताः श्लेष्मविकास प्रशान्तिमापयन्ने। यथा भिन्ने केदारसेतो शालियरषष्टिकादीनि अनभिष्यन्डमानान्यम्भसा प्रशोषमापद्यन्ते तद्वदिति ॥ २१।२२ ॥
भवन्ति चात्र। रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ।
ततः कर्म भिषक पश्चाजज्ञानपूर्व समाचरेत् ॥ २३ ॥ एवामाशयमित्यामाशयस्यो वयवस्य विशेषेण श्लेप्मस्थानखात्। अत्राप्युरो विशेषेण श्लेष्मणः स्थानमिति वचनेन वक्षसः श्लेष्मण प्रधानस्थानत्वेऽपि श्लेष्मणः सव्र्वेषु स्थानेष्वाशयरूपेष्वध आशयस्त्वामाशय एव। ततःप्रभृति ऊद्ध हरणेन सर्वाशयश्लेष्महरणं भवतीति ज्ञापनाय हि ऊद्ध मुक्षिपतीत्यूद्धश्लेष्म हरणेन श्लेष्मण आमाशयेन वैकारिकमूलसंयोगमारभ्य वक्षःप्रभृतिसंयोगं छिनत्तीत्यर्थः। अत्र दृष्टान्तमाह-यथा भिन्ने इत्यादि। अम्भसा अनभिष्यन्दमानानीत्यन्वयः ।। २१॥२२॥
गङ्गाधरः-ननु वाताद्यात्मरूपकर्म लक्षणानां विज्ञाने किं प्रयोजनमित्यत आह पदेवन-भवन्तीत्यादि । रोगमित्यादि । आदौ रोग परीक्षेतेति चेत् सुतरां रोगपरीक्षायां वातादिलिङ्गशानमपेक्षते इति भावः। तत औषधं परीक्षेत इत्यन्वयः । औषधरीक्षा हि व्याध्यपेक्षिणी भवतीति। अतो रोगपरीक्षानन्तरं भेषजपरीक्षा उपपद्यते। अत एव सुतरां रोगपरीक्षाभेषजपरीक्षानन्तरं प्रतिक्रिया भवतीत्याह-ततः कम्में आस्थापनादुरपक्रयणम् । ज्ञानपूर्वमिति अन्यत्र अनुप्रविश्येति वचनेन इलेप्मस्थानेष्वामाशयस्य प्राधान्यम्, पूर्वन्तु "तत्रापि उरो विशेषेण” इति वचनेनोरः प्रधानम्, एवमुभयमपि तुल्यं ज्ञेयम् ॥ १८-२२॥
चक्रपाणिः-सम्प्रति रोगज्ञानस्य चिकित्सायामुपयोगमाह-रोगमित्यादि । औषधं परीक्षेतेति
For Private and Personal Use Only