________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८०
चरक-संहिता। ___ [ महारोगः प्रशान्तिमापद्यन्ते ; यथाग्नौ व्यपगते केवलमग्निगृहं शीतीभवति तद्वत् ॥ १६॥१७॥
श्लेष्मविकारान् विंशतिमत ऊर्द्ध व्याख्यास्यामः। तद्यथा--तृप्तिश्च तन्द्रा च निद्राधिक्यच स्तमित्य च गुरुगात्रता च आलस्य च मुखस्रावश्च मुखमाधुर्य्यञ्च श्लेष्मोदिरणञ्च बलाशकश्चापक्तिश्च हृदयोपलेपश्च कण्ठोपलेपश्च धमनीप्रविचयश्च गलगण्डश्च अतिस्थौल्यञ्च शीताग्निता चोदईश्च श्वेतावभासता च वेतनेत्रमूत्रवर्चस्त्वच। इति विंशतिः व्यपगते व्यपोढ़े केवलमग्निहीनमग्निसन्तप्तमात्रम् अग्निगृहमग्निमदगृहम् ॥१६॥१७॥ ___ गङ्गाधरः--उद्देशक्रमप्राप्तान् श्लैष्मिकान् विंशतिं रोगानाह-इलेष्मेत्यादि । तृप्तिश्चेत्यादि। येनात्मानं तृप्तमिव मन्यते सर्वदा सा तृप्तिः। बलाशको बलक्षयः। कश्चित् तु–“नित्यं मन्दज्वरो रुक्षः शूनकस्तेन सीदति । स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातवलाशकी॥” इत्याह, तन्न। वातश्लेष्मारब्धत्वेन नानात्मजत्वाभावात्। धमनीप्रविचयो धमन्युपलेपेन धमनीनां पुष्टता। गलगण्डस्तु ककारब्ध एव वातानुबन्धेन कफेनारब्धत्वे हि वातजकफजमेदोजखव्यपदेशोऽनुवन्धत्वेन तेषामाधिस्यात् । न पुरवस्तुतो ज्वरादिवत् वातजादिः । शीताग्निता मन्दाग्निता। उदद्दश्चेति तत्रान्तरे हुक्तो यथा-“शीतमारुत संर्पशात् प्रदुष्टौ कफमारुतौ। पित्तेन सह सम्भूय वहिरन्तर्विसर्पतः ।। पिपासारुचिल्लास-देहसादाङ्गगौरवम् । रक्तलोचनता तेषां पूर्वरूपस्य लक्षणम्॥ वरटी. दष्टसंस्थानः शोथः सञ्जायते वहिः। सपाण्डुस्तोदबहलश्छर्दिवरविदाहवान् ॥ उदद्दे मिति तं विद्याच्छीतपित्तमथापरे। वाताधिकं शीतपित्तमुदद्देश्च कफाधिकः॥” इति । एवमन्यत्रापि-“सोत्सङ्गैश सरागैश्च कण्डमद्भिश्च मण्डलैः। शैशिरः कफजो व्याधिरुदई इति कीर्त्तितः ॥ इति । एष एवात्र विवक्षितः। पूर्वश्च कफाधिकत्वेन यो निरुक्तस्तस्य वातमात्रादिजखाभावेन सामान्यजत्वाभावात् ।
चक्रपाणिः-तृप्तियन तृप्तमिवात्मानं सर्वदा मन्यते, बलाशको बलक्षयः, किंवा श्लेष्मोदेकान्मन्दजवित्वम् स्थूलाङ्गता वा बलाशकः, धमनीप्रतिचयो धमन्युपलेपः, शीताग्निता,
For Private and Personal Use Only