SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०श अध्यायः सूत्रस्थानम् । ७७६ कुशलाः। तद्यथा-औष्ण्यं तैक्षण्यं द्रवमनतिस्नेहो वणश्चाशक्लो* गन्धश्च विस्रो रसौ कटकाम्लो सरश्च पित्तस्यात्मरूपाणि। एवंविधत्वाचास्य कर्मणः स्वलक्षणमिदमेतस्य भवति तं तं शरीरावयवमाविशतः। तद्यथा-दाहौष्ण्यपाकस्वेदक्लेदकोथ स्त्रिावरागाः यथास्वगन्धवर्णरसादिनिवर्त्तनं पित्तस्य कर्माणि । तैरन्वितं पित्तविकारमेवाध्यवस्येत् ॥ १४॥१५॥ तं मधुरतिक्तकषायशीतैरुपक्रमरुपक्रमेत स्नेहविरेचनप्रदेहपरिषेकाभ्यङ्गादिभिः पित्तहरैर्मात्रां कालञ्च प्रमाणीकृत्य । विरेचनन्तु सवोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः । तद्धि आदित एवामाशयमनुप्रविश्य केवलं वैकारिकं पित्तमूलमपकर्षति। तत्रावजिते पित्ते शरीरान्तर्गतपित्तविकाराः विस आमगन्धः। एवं विश्वाच्चेति औष्णादिगुणवत्त्वात् । वृद्धपित्तस्य औष्णवादिगुणनितस्य कम्मण इदं वक्ष्यमाणं दाहादिकं कर्म स्खलक्षणम् । ___ कर्मणो लक्षणान्याह एवमित्यादि । पूर्वमिह व्याख्यातम् । दाहेत्यादि। पित्तस्य औरण्यतीक्ष्णत्वाभ्यां वृद्धस्य कर्म वह रिव दाहादिकं तेन कर्मणा शरीरे दाहोण्यपाकादिरागान्ता औष्प्यतीक्ष्णताभ्यां सहचरितद्रवानतिस्नेहाभ्यां भवन्ति पित्तस्य दहनादिकर्मणो लिङ्गानि। यथास्वगन्धवर्णेत्यादि । अशुक्लनानावर्णगुणेन वृद्धस्य पित्तस्य कम्णश्चिह्नमशुक्लास्तावन्तो वर्णाः शरीरस्य । गन्धश्च शरीरस्य विस्रः। रसश्च शरोरे कटुरसेन वृद्धस्य कटुकथाम्लरसेनाम्लः। सवं पूर्ववव्याख्येयम् ॥ १४।१५ ॥ गङ्गाधरः--प्रसङ्गादागतखात् पैत्तिकरोगाणां क्रियामूत्रमाह-तमित्यादि । शीतेति स्पर्शतः पाकतो वीयतश्च । उपत्र नाह-स्नेहेत्यादि । आमाशयमिति पक्कामाशयमध्यस्थानस्योद्धम्। ततःप्रभृति पित्तस्याधोभागगमनेन यावदवैकारिकमूलस्थानसंयोगं छिनत्तीत्यभिप्रायेणाह-अपकषेतीति छिनत्ति । * वर्णश्च शुक्लारुणवर्ज इति चक्रस्वीकृतः पाठः । + कोथेत्यनन्तरं कण्डू इति चक्रः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy