SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 995 चरक संहिता | [ महारोगः कक्षा च कामला च तिक्तास्यता च लोहितगन्धास्यता च पूतिमुखता च तृष्णाधिक्यञ्च अतृप्तिश्चास्यपाकश्च गलपाकश्च चिपाकश्च गुदपाकश्च मेढपाकश्च जीवादानञ्च तमः प्रवेशश्च हरितहारिद्रनेत्रवर्चस्त्वञ्च । इति चत्वारिंशत् पित्तविकाराणामपरिसंख्येयानामाविष्कृततमा व्याख्याताः ॥ १३ ॥ 1 सर्वेष्वपि तु खल्येतेषु पित्तविकारेषूक्तेष्वनुक्तेषु चान्येषु पित्तस्येदमात्मरूपमपरिणामि कर्म्मणश्च स्वलक्षणम् । यदुपलभ्य तदवयवं वा विमुक्तसन्देहाः पित्तविकारमेवाध्यवस्यन्ति विद्यतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ॥” इति । रक्तपित्तञ्चेति रक्तसंसर्गेण रक्तीभूतं पित्तं रक्तपित्तम् । न तु रक्तपित्ताख्यो य उच्यते तस्य यवकोलादिकारणैः पित्तं प्रकुप्य रक्तश्च विवृद्धं यकृत्प्लीहप्रभव रक्तवहस्रोतोऽभिगम्य दूषयित्वा रक्तपित्तं जनयतीति रक्तप्रदोषात् भेदात् किंवा तस्यापि वातादिसंसर्गेखादारम्भे पैत्तस्यैव कर्तृत्खात् सामान्यजवाभावाच नानात्मजत्वम् । तदेवात्र गृह्यते । हरितत्वं रक्त णत्वम् | हारिद्रत्वं हरिद्रावर्णत्वम् । नीलिका क्षुद्ररोगे सुश्रुतोक्ता त्रिशोथीये लिखिता । कक्षा चेति सुश्रुते"बाहुपाश्वांसकक्षासु कृष्णस्फोटांसवेदनाम् । पित्तप्रकोपात् सम्भूतां कक्षामिति विनिर्दिशेत् ||" इति । कामला चेति कामला पित्तपाण्डोरवस्थाविशेषः । कामला बहुपत्तैा बोध्या । पाण्डोहि सामान्यजत्वेऽपि पित्तपाण्डौ पित्तलाहारात् व्याध्यन्तरत्वेन कामला भवति । तस्मान्न कामलायाः सामान्यजत् । तिक्ता स्यता तिक्तमुखत्वम् । लोहितगन्धास्यता मुखे रक्तगन्धलन् । पूतिमुखता दुर्गन्धमुखता । तृष्णाधिक्यं केवलतृष्णातिशयः न तु तृष्णाख्यरोगविशेषः, तस्य सामान्यजत्वात् । अतृप्तिः सदा बुभुक्षा। जीवादानं विरेचनव्यापद्विशेष उक्तो यो जीवरक्तनिर्गमः । हरितेत्यादिना एक एव रोगः । इतीत्यादि सव्यं पूव्र्व्ववद् व्याख्येयम् ।। १३ ॥ गङ्गाधरः - सव्वष्वित्यादि । पित्तस्यात्मरूपेषु वर्णश्चाशुक्लसदृशः । गन्धश्व एवं तृष्णायाञ्च तृष्णामात्रं, कक्षा कक्षदेशगतमांसदरणं, स्फोटाः सुश्रुतक्षुद्ररोगोक्ताः, गन्धो वि इत्यामगन्धः, यथास्वमित्यामगन्धवर्णसदृशम्, अग्निमद् गृहमग्निगृहम् ॥ १३–१७ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy