________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महारोगः
७१६
चरक-संहिता। तं मधुरामललवणनिग्धोष्णरुपक्रमेत। न हस्वेदास्थापनानुवासननस्तःकम्म-भोजनाभ्यङ्गोत्सादन-परिपेकादिभिर्वातहरैर्मात्रां कालश्च प्रमाणीकृत्य । तत्रास्थापनानुवासनन्तु खलु सर्वोपक्रमेभ्यो वाते प्रधानतमं मन्यन्ते भिषजः । तद्धि आदित एव पक्काशयमनुप्रविश्य केवलं वैकारिकं वातमूलं छिनत्ति। तत्रावजिते वालेऽपि शरीरान्तर्गतवातविकाराः प्रशान्तिमापद्यन्ते। यथा वनस्पतेमू ले छिन्ने स्कन्धकभणीति वृद्धवायोः कर्मणः कर्माणि कर्मभूतलिङ्गानि । एतैः कर्मभिरनुमितेन कम्र्मणानुमेया भवन्ति । वातस्य वृद्धया रोक्ष्यादयो गुणा लिङ्गभूताः । तैश्च गुणैर्वातो वृद्धोऽनुमीयते इति । ततः सुतरां तैः स्वसादिभिरन्वितं विकारं वातविकारमेव वातरोगखनै वाध्यवस्येत् न खन्यविकारत्वेनेति ॥ १० ॥
गङ्गाधरः-प्रसङ्गादस्य वातस्य प्रशममूत्रमाह-तमित्यादि। तं वातरोगं मधुरादिभिः रौक्ष्यादिगुण विपरीतैः स्निग्योष्णयुगपत् स्निग्धखोष्णववद्भिस्तैलादिभिः उपक्रमेतेति विटणोति-स्नेहेत्यादि। मधुरादिभिः स्नेहादिपरिपेकाधन्तोपक्रमाणां रौक्ष्यादिविपरीतत्वात् वातहरखम् । मात्रां कालश्च प्रमाणी. कृत्येत्यस्य मधुरादिभिः स्नेहादिभिश्च सहान्वयादुपक्रमेतेत्यस्य चोभयत्रान्वयः। आस्थापनानुवासनन्नु इत्येकवचनम् आनुपूविकत्वेन युगलखाभिप्रायात् । सर्वोपक्रमेभ्यः स्नेहस्वेदादिम्यो मध्ये वाते प्रधानतमम्, न तु पित्तादौ । प्रधानतमत्वं दर्शयितु हेतुमाह --तद्धीत्यादि। आस्थापनानुवासनं हि आदित एव वातरोगे प्रयोगमात्रं शीघ्रमेव वैकारिक वातमूलं न तु प्राकृतं, छिनत्तीति वायोयम् स्थानसमाश्रयणेन तत्तद्विकारकत्त खं तत्स्थानसंयोगमुच्छिनत्ति। तदुच्छेदेन कथमन्यत्रगतवातविकाराः प्रशाम्य तीति ? अत आह-तत्रेत्यादि । तत्र वैकारिकमूलभूतस्थानसंयोगे वातस्यावजिते शरीरान्तर्गतवातविकारा प्रभावाद वा क्रियते, वर्तुलीकरणं वर्त्तः, चालः स्पन्दः, रसवर्णों वायुना रसवर्णरहितेनापि प्रभावात् क्रियते ॥ १० ॥
चक्रपाणि:-प्रस्तावागतत्वेन चिकित्सामाह-मधुरेत्यादि। आदित एवेति शीघ्रमेव, केवलं वैकारिकमिति सकलविकारकारकम् ॥ ११ ॥ १२ ॥
For Private and Personal Use Only