________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७४ . चरक-संहिता।
महारोगः लभ्य तत्तदवयवं वा विमुक्तसन्देहा वातविकारमेवाध्यवस्यन्ति कुशलाः ॥६॥
तद्यथा---शैक्यं शैत्यं लाघवं विशदता गतिरमूत्तित्वञ्च वायोरात्मरूपाणि। एवंविधत्वाञ्च वायोः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः। तदयथास्वलक्षणं कीदृशमिति ? अत आह-यदुपलभ्येत्यादि। वातविकारेषु वायोरात वृद्धस्य संसर्गाद्यन्तरेण स्वाभाविकं यदात्मरूपं कृत्स्नं तत्तदवयवं वा एकदेशं वोपलभ्य विमुक्तसन्देहाः वातविकारलेन संशयपरिहीणाः कुशला भिषजः वातविकारमेवाध्यवस्यन्ति। न तु पित्तादिविकारखेन वाशब्देन कृत्स्नमिति लभ्यते। एतच यदितिपदस्य कम्मेणश्च स्खलक्षणमित्यनेन अप्यन्वयः। तेन वातविकारेषु वृद्धस्य वायोः कम्मणश्च स्वामाविकं यत् कृतन स्वलक्षणं तत्तदवयवं वोपलभ्य विमुक्तसन्देहा वातरोगत्वेनैवाध्यत्रस्यन्ति न तु पित्तादिरोगत्वेनेत्यो बोध्यः॥९॥
गङ्गाधरः-ननु वातविकारेषु वायोरर्थात् वृद्धस्यापरिणामि किमात्मरूपं किञ्च तस्य कर्मणोऽपरिणामि स्वलक्षणमिति ? तत्तदाह-तद्यथेति । गतिश्चलखम् । अमूर्तित्वं सूक्ष्मत्वम् न तु परमाणुलम् । किन्तु वृहत्त्वेऽपि सूक्ष्मानुसारिवाभिधायकगुण इति यावत् । एतानि चात्मरूपाणि वायोः साम्यहान्यवस्थयोरपि भवन्त्यपि मानाधिक्येनात्र बोद्धव्यानि। दृद्धावस्थखाद वायोर्यथा हीनस्य वा समस्य का वृद्धस्य वा बह्न रुष्णत्वं वर्तमानमेवाल्पं वा समं वा वृद्धं वा भवति । तेन चोणत्वेन किश्चिदति, समश्च दहति, अधिक वा दहतीतिवत् अत एवाह एवं विश्वादिति। वृद्धरौक्ष्यादिरूपवादस्य वृद्धस्य वायोस्तं तं शरीरावयवमाविशतः कर्मणश्च स्वलक्षणमिदं भवति । शरीरावयवापेक्षया हि कर्म विशेषः स्यात् । स्याचामाशयादिपित्तादिसम्बन्धेन कम्मे च प्रयत्तिः। अत्राप्यपरिणामीति पित्तश्लेष्मसम्बन्धनिरपेक्षं, न तु शरीरावयवानपेक्षमिति, यत', बने- "तं तं शरीरावयवमाविशतः' इति ; अत एव च स्रसादीनां शरीरावयवापेक्षत्वेन न सर्वदा भावः ; एवञ्च पित्तश्लेप्मणोरपि चात्मरूपादि व्याख्येयः ॥ ७-९॥
चक्रपाणिः-अमूर्त्तत्वमित्यदृश्यत्वम्, एवंविधत्वादिति शैक्ष्यादियुक्तत्वाद्वायोरिति सम्बन्धः
For Private and Personal Use Only