________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७३
२०श अध्यायः ।
सूत्रस्थानम् । प्रलापश्च ग्लानिश्च रौक्ष्यच पारुष्याच श्यावारुणावभासता चास्वप्नश्चानवस्थितचित्तत्वञ्च * इत्यशीतिर्वातविकाराः । वातविकाराणामपरिसङ्घयानामाविकृततमा एव व्याख्याताः । सर्वेष्वपि खल्वेतेष वातविकारेपत्तो वन्येषु चानुक्तेषु वायोरिदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणम् । यदुपउक्ताः, किन्तु हिकनमात्रं हिगितिशब्दप्रत्तिः। विषादो मनोदैन्यम्। अतिप्रलापश्चेति वातकृतः। प्रलापस्तु पित्त कृत इति प्रलापयोर्भेदात् न सामान्यजखम् । ग्लानिरहपः। अनवस्थितत्वं क्षणिकस्वभाववैपय्येयखवत ।
ननु वातरोगाध्याये वक्ष्यमाणखल्वीमिन्मिनादीनां किं न वा नानात्मजत्वमिति ? अत आह---इत्यशीतिरित्यादि। आविष्कृतत्वं प्रायोभावित्वम् । तेनान्येऽपि वातरोगाः सन्ति ।
नन्वेषामुक्तानामनुक्तानाश्च वातरोगाणां कथं ज्ञयत्वमिति ? अत आह-सवें वित्यादि । वायोरिदमात्मरूपमपरिणामीति-आत्मरूपं सम्बन्धाश्रयत्वाप्रपाभिव्यतिरिक्त अपरिणामि सहजसिद्धं लिङ्गमकुपितवायोरिदं स्वाभाविकं लिङ्गमित्यर्थः । स्थानान्तरादिसम्बन्धोपाधिना हि परिणामिलिङ्गन्तु यथाकरं बोध्यम्। कर्मणश्चेति चकारेण वायोरिदमपरिणामीत्यनुवर्त्तते । विकाराधिकारात् वायोवकारिकलमदेव लभ्यते । तेन वृद्धस्य वायोः कर्मणश्च स्खलक्षणमिदमपरिणामि पित्तादुत्रपाधिव्यतिरिक्तं स्वरूपतः सिद्धम् । स्वं रूपं लिङ्गकर्म हि वायोः क्रिया । तस्य लिङ्गं श्रमादिकं वक्ष्यते । न तु तस्य लिङ्गानि वक्ष्यन्ते । कर्म पुनः प्रत्तिरुतक्षेपणादि पञ्चविधमाहुरन्ये । तन्न, बहुविश्वात् । कीदृशं वायोर्वातविकारेषु स्वीय रूप? तस्य च कर्मणश्व तत्र येऽभिहितास्ते प्रधान ताः प्रायोभावित्वेन, अनुक्तास्तु वातविकाराणामपरिसंख्येयत्वेन ग्राह्याः।
वायोरिदमित्यादी वायोरिदमात्मरूपं स्वरूपम्, अपरिणामीति सहजसिद्धं नान्योपाधिकृतमित्यर्थः । कर्मणश्चेति विकृतस्य वायोः कर्मणः, स्वलक्षणमित्यात्मीयं लक्षणम् ;
* उन्मादश्चेत्यत्र हृन्मोहस्तथा हनुभेदश्चेत्यत्र हनुतास्तथा हिक्का चेत्यत्र विषाद इति चक्रसम्मतः पाठः।
For Private and Personal Use Only