________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
[ दोर्घञ्जीवितीयः
चरक संहिता |
लभ्यते । प्रतिक्षिप्तशरेणाभिभूतवेगस्य तस्यापरेणानुप्रतिक्षिप्तस्य षोः पततः पुनः प्रतिक्षिप्तेन शरेण वारितपतनस्यैव पुनःपुनः शरप्रतिक्षेपेण पतनं यद्वारयति तत्मक्षिप्तशरे संयुक्तस्य प्रतिक्षिप्तशरस्य संयोगाज्जातस्थितिस्थापनाख्यसंस्कारेण गुरुत्वादपि स इषुर्न पतति यावत् तत् स्थितिस्थापनसंस्कारम् । ततस्तस्थितिस्थापनसंस्काराभावे गुरुत्वाच्च पतनं तस्येपोर्भवतीति पृथिव्यामधोगमनमुपलभ्यते । नन्वेतदसमग्रवचनं नोदनाभिघातसंयुक्तसंयोगेभ्योsन्यस्मादपि भूमिकम्पो भवतीत्यत आह । तद्विशेषणादृष्टकारितम् । तत् पृथिव्यां कर्म नोदनाभिघातसंयुक्त संयोगेभ्य एव भवति किञ्चित् दृष्टकारितं किश्चिद्विशेषणैनदिनाभिघातसंयुक्त संयोगैरदृष्टः कारितं च भवति । तेन भूकम्पोऽदृष्टनोदनादिभिः कारितो बोध्य इति । क्रमिकत्वादपां कर्म परीक्ष्यते । नन्वपां किं कम्पेत्यत आह । अपां संयोगाभावे गुरुत्वात् पतनम् । अपां कर्म प्रतिबन्धकद्रव्यसंयोगाभावे गुरुत्वात् पतनमधोगमनम् । यथा मेघे वर्षति जल पतति भूमौ तत्र गृहादौ प्रतिबन्धके संयोगान्न गृहमध्ये जलपतनम् । तद् गृहाद्यभावे तद्भूमौ तु जलं पतत्येव । ननु नवे घटे स्थित जलं प्रतिबन्धके द्रव्यसंयोगेऽपि तद घटपादितः पततीति व्यभिचार इत्यत आह । द्रवत्वात् स्यन्दनम् । नवे घटादौ स्थितं जल यत् स्रवति पार्श्वादितस्तन्न पतनं किन्तु द्रवत्वात् स्यन्दन' तदप्यपां कम् । स्यन्दनन्तु द्विविधं स्रावात्मकं वेगात्मकञ्च घटादिस्थस्य जलादेर्यत पार्श्वीदितः क्षरण' तत स्यन्दनं स्त्रावात्मकम्, नद्यादौ जलस्य यदुच्चदेशाद वेगेन चलत्वं तद्वेगाख्यस्यन्दनं प्रतिस्यन्दनञ्च द्वयमेव गुरुत्वद्रवत्वोभयस्माद्भवति न त्वेकतः । उच्चदेशे स्रावस्रोतसोरधःस्थजलस्य प्रसङ्गादिति । ननु गुरुत्वादपां पतन' द्रवत्वगुरुत्वोभयस्मात् स्यन्दनमस्तु परन्त्वषां कर्म्मणो न समग्रवचनमिदं नलिकास्थजलस्य तिर्य्यगृर्द्धादिगमनादित्यत आह । नाड्यो वायुसंयोगादारोहणम् । नाडिका अन्तर्गतानामपां वायुसंयोगाद द्रवत्वादारोहणं तिर्य्यगृर्द्धादिगमनं जनयन्ति । न वस्तुतस्तिय्य गादिगमनमपामस्तीति भावः । नाड्यो न केवल वायुसंयोगादपामारोहणं जनयन्त्यन्यस्मादपीत्यत आह । नोदनापीड़नात्
I
कृत्स्नक्रियावरोधः । यद्यपि चेष्टितं प्राणिव्यापार उच्यते, तथापीह सामान्येन क्रिया विवक्षिता, चेष्टितपदेनैव सव्र्वकम्मलाभे सिद्धे वमनादिकम्मनिषेधे च सिद्धे प्रयत्नादीति पदं सुसूक्ष्मप्रयल
For Private and Personal Use Only