________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
सूत्रस्थानम् ।
६५
पञ्चात्मक पृथिव्यादिषु क्रमेण स्थूला एवाभिव्यज्यन्ते न तु व्यक्तस्थूलाः पाश्चभौतिकेषु तु व्यक्ता जायन्ते इति । गुणान् निर्दिश्य निर्दिशति । प्रयत्नादीत्यादि । - प्रयत्नो नाम गुणविशेषः प्रकृतिगुणमध्ये पठितः । स चात्मन इच्छाजन्या प्रवृत्तिद्वे षजन्या निवृत्तिः स आदिः कारणं यस्य तत्कर्म्म मनःप्रवृत्तिः प्रकृतिभूतं कर्म । तज्जश्च चेष्टितं वाग्देहप्रवृत्तिः । भौतिकी च चतुर्द्धा वायौ सर्व्वतोगतिरूद्ध ज्वलनं तेजसो निम्नगमनमपां स्थिरगतिः पृथिव्या इति । ननु पृथिव्यां स्थूलकठिनगुरुत्वाद्धीराघोगमनं कम्म कथमुपलभ्यत इत्यत उक्त कणादेन वैशेषिके । “उत्क्षेपणमवक्षेपणं प्रसारणमाकुञ्चनं गमनञ्च ति कम्" इति प्रकृतिभूतं कम्मक्ता नोदनादभिघातात् संयुक्त संयोगाच्च पृथिव्याः कर्म्म । पृथिव्यां कर्म क्रियोपलभ्यते । नोदनादभिघातात् संयुक्त संयोगाच्च । तद्यथा । येन संयोगेन क्रियमाणेन ध्वनिर्न भवति तत्संयोगो नोदनाख्यः । यथा कर्दमचरणसंयोगजं तत्संयोगाच्चलतीति भ्रान्ता व्याचक्षते । संयोगो हि कर्मजः कथं क्रियां विना संयोगात् कम्पत्पद्ये तेति तस्मान्नोदनं प्रेरणम् । प्रेरणाद्धि वेगाख्यः संस्कारस्तस्मादुत्क्षेपणेन गच्छतो वाणस्य पार्थिवस्य वेगाख्यसंस्कारापगमे गुरुत्वादधःपतनं कम्मोपलभ्यते । इदमुक्तं कणादेन स्वयमाचार्येणातः पूर्वं सूत्रद्वयेन । तद्यथा । नोदनादाद्यमिषोः कम्म तत्कम्पकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरश्च । संस्काराभावे गुरुत्वाच्च पतनमिति । इषोः पृथिवीबहुल लोहमयपार्थिवस्य वाणस्य धनुषः क्षिप्तस्य प्रथम कम्म नोदनात् धन्विपुरुषस्य धनुराकर्षणव्यापारेण प्रेरणात् जातवेगाख्यसंस्कारात् प्रथम' कम्म चलनं तत्कम्पणा धन्विना कारिता गाख्यसंस्कारात् ततः परश्च चलनं कर्म ततश्च तदुत्तरं कर्म ततश्च तदुत्तरं कम्मेत्येव' यावद्वे गाख्यसंस्कारं ततो वेगाख्यसंस्कारापगमे गुरुत्वाच्च पतनमधोगमनमिति पृथिव्यां नोदनात् कम्पत्पद्यते । अभिघाताच पृथिari कर्म भवति । तद्यथा । प्रक्षिप्तस्य तस्यैवेषोर्जातवेगस्य चलतो वेगसद्भावेऽपि प्रतिक्षिप्तेन शरेणाभिघातादभिभूतवेगस्य वेगाभावे गुरुत्वाच्च पतनमिति चकारादुक्तम् । संयुक्तसंयोगाच्च पृथिव्यां कम्मोप
क्रमागतं कर्म्म निद्दिशति प्रयत्नादीत्यादि । - प्रयतनं प्रयत्नः कम्मैवाद्यमात्मनः, यथा - " तुल्या-, ऽऽस्यप्रयत्न ं सवर्णम्" इत्यत्र व्याख्यातम् | आदिशब्दः प्रकारवाची, तेन संस्कार गुरुत्वादिजन्य९
For Private and Personal Use Only