________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
दीर्घजीवितीयः अथार्थाः शब्दस्पर्शरूपरसगन्धा इति यत् तत्र शब्दो नाम नाकाशलिङ्गाख्योअतिधातलक्षणस्य हि मूक्ष्मस्याकाशस्याव्यक्तः शब्दो न श्रूयते नापि परखादीन्याकाशलिङ्गानि सन्ति ; लिङ्ग ह्यनुमितिसाधनं, तच्च कान्तिकखशानमन्तरेण न भवति, ऐकान्तिकखज्ञानन्तु न प्रत्यक्षादीनां निश्चयग्रहणमन्तरेण भवति, परन्तु शब्दः शब्द इति धातुर्ध्वनिमात्रार्थकः स्वार्थकुद्योगे निष्पन्नशब्दपदवाच्यः श्रवणेन्द्रियार्थः । श्रवणेन्द्रियासयोनिवेन पाञ्चभौतिकद्रव्ये उदात्तादिदशविधान्यतमवेनाभिव्यक्तखदशायां श्रवणयोग्यत्वात् इत्येवमुपदेशेनैकान्तिकत्वग्रहादुदात्तादयः शब्दाः श्रवणेन्द्रियग्राह्यास्तत्प्रकृतित्वादाकाशादिप्रत्येकस्था अव्यक्त शब्दाः श्रवणेन्द्रियार्थाः समानयोनिखादिकार्यगुणा उदात्तादयः शब्दाः खादिषु प्रत्येकेषु प्रकृतिशब्दाः सामान्यभूता गुणा इति। "श्रवणार्थस्तु शब्दोऽस्य द्रव्यं भूतानि पञ्च वै। अभिव्यक्ती विशेष च समस्तान्येव हेतवः॥" स्पर्शस्तु वायोराकाशस्थशब्दात् किञ्चित् स्थूलः स्वभावत एव तेन याद्यात्मक वाग्वादिषु विशेषेणेषदभिव्यज्यते शीतोष्णशीतखरस्वरूपेण। तथा स्पर्शात् स्वभावतः स्थूलं रूपं तेजसि प्रकृतिभूतं सामान्यं याद्यात्मकेषु तेजोऽभूमिषु लोहितशुक्लकृष्णरूपेण विशेषणेषदभिव्यज्यते। रूपाच्च स्थूलो रसो रसतन्मात्रास्वप्सु स्वभावत एव प्रकृतिरूपः सामान्यभूतः चतुरात्मिकास्वप्सु पश्चात्मिकायां भूमौ चाव्यक्तमधुराव्यक्तलवणरूपेण विशेषेणेषदभिव्यज्यते। गन्धतन्मात्रायां भूमौ गन्धो रसात् स्वभावतः स्थूलप्रकृतिरूपः सामान्यभूतः पञ्चात्मिकायामीपद्विशेषेण सौरभरूपेणेवदभिव्यज्यते। पाञ्चभौतिकेषु द्रव्येषु तत्तद्भतांशांशविशेषेणैते शब्दादय उदात्तादिशीतादिलोहितायव्यक्तमधुरादिकिश्चित्सौरभासौरभगुणाः स्थूलरूपा नानाविधा अभिव्यज्यन्ते। तत्र शब्दतन्मात्राकाशे यथात्यनभिव्यक्तः शब्दो याद्यात्मकेषु वाय्वादिषु क्रमेण स्थूल एवाभिव्यज्यते न तूदात्तादिविशेषेणे पाश्चभौतिकेषु द्रव्येषदात्तादिरूपव्यक्ता अभिव्यज्यन्ते । तथा गन्धतन्मात्रादिषु पृथिव्यादिषु पञ्चसु गुरुखादयोऽत्यनभिव्यक्ताः इति। इह तु चेतनादीनां बुद्धिग्रहणेनैव ग्रहणं, शारीरे तु चेतनादीनामपि पृथगात्मगमकत्वेन पृथक् पाठः, एतच्च तत्रैव व्याकरणीयम् । परादयो यथा- “परापरत्वे युक्तिश्च संख्या संयोग ए च। विभागश्च पृथक्त ञ्च परिमाणमथापि च । संस्कारोऽभ्यास इत्येते गुणाः प्रोक्ताः परादयः ॥" एते च सामान्यगुणा अपि नात्युपयुक्तत्वात् तथा बुद्धिप्राधान्याच्चान्ते प्रोक्ताः । प्रोक्ता इति प्रकर्षेण विशेषगुणत्वादिनोक्ताः।
For Private and Personal Use Only