________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
सूत्रस्थानम् । प्रयत्नाता इति ।-इच्छा द्वषः मुखं दुःख प्रयत्नश्चेति पश्च । परादय इति। वक्ष्यन्ते हि “परापरखे युक्तिश्च सङ्ख्या संयोग एव च । विभागश्च पृथक्वश्च परिमाणमथापि च । संस्कारोऽभ्यास इत्येते गुणा ज्ञयाः परादयः ॥” इति। ___ गुणाः प्रोक्ता इति। गुणा निश्चेष्टसमवायिहेतवः । प्रोक्ता इति शब्दादयः पश्चार्थाः, खादीनां प्रत्येकमेकैकद्धया वाय्वादिष्वपि पाञ्चभौतिकेषु च सवें गुणा गुर्बादयश्च पूर्वभूतानुप्रविष्टवाय्वाधारब्धानां चेतनशरीराणां पश्चात्मकसे पाश्चभौतिकानाश्चापाणिनां घटादीनामित्यभिप्रायेण सार्था इति पृथक् पदं, गुर्वादयस्तु तेषां फलनिष्पत्तौ कर्तवे वीर्याणीत्यभिप्रायेण च सार्था इति न तु सार्थगुह्यदय इति कृतम् । पदभेदकरणात बुद्धिप्रयत्नान्तानां राशिपुरुष वात्मलिङ्गवं पुरुषस्य च फलनिष्पत्तौ कर्त खे साथगुर्वादीनामिवैषाश्च वीर्यवमित्यभिप्रायेण बुद्धिः प्रयत्नान्ता इति पदभेदः । परादीनां द्रव्ये गुणे कर्माणि च सहजतेनोत्तरकालञ्च वृत्तिः, फलनिष्पत्ती चोपायत्वं न तु वीर्यसमित्यभिप्रायेण पदभेदेन प्रोक्ता गुणा इत्यर्थः । न वेतेभ्योऽधिको गुणः प्रकृतिभूतो वा कार्य्यभूतो वा, सुश्रुते हि व्यवायी विकाशीति द्वौ गुणाबुक्तौ। तत्र “व्यवायी देहमखिलं व्याप्य पाकाय कल्पते। विकाशी विकशन धातून सन्धिबन्धान विमोक्षयेत्। सरतीक्ष्णप्रकषौ तु कैश्चित् तो परिकल्पितौ ॥” इति व्याख्यानात् प्रकृष्टसरतीक्ष्णगुणवेनानतिरिक्ताविति बोध्यम् । धर्माधम्मो हि शुभाशुभदौ वैधावैधक्रियाजन्यौ शरीरे संस्कारविशेषो सुखदुःखफलप्राप्ती करणरूपो न खात्मगुणौ। छान्दोग्यपृहदारण्यकयोरुक्त “मृतस्य दाहकरणाय बान्धवाः शवं नयन्ति यदा दहन्ति तदा तस्माच्छरीराद्भाव द्दिष्टपुरुष उत्थाय धूमादिक्रमेण चन्द्रलोकं गवा सोमो राजा भवति परलोकं गतस्य तदिष्ट फलभोगावसाने पुनः पर्जन्यमागतं तद्दिष्ट वर्षेण शस्यं प्रविशति तत् शस्यभुजः शुक्रं भवति तेन शुक्रण पुनः स पुरुषो जायते” इति श्रूयते।
मन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरस्थूलसूक्ष्मसान्द्रद्वाविंशतिः, एते च सामान्यगुणाः पृथिव्यादीनां साधारणत्वात् ; एते च यजःपुरुषीये प्राय आयुर्चेदोपयुक्तत्वात् परादिम्यः पृथक पठिताः। बुद्विज्ञानम्, अनेन च स्मृतिचेतनास्त्यहङ्कारादीनां बुद्धिविशेषाणां ग्रहणम् । प्रयत्रोऽन्तो येषां निर्देशे ते प्रयत्नान्ताः, एतेन च इच्छाद्वषसुखदुःखप्रयत्नानां ग्रहणम्, वचनं हि "इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः। बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः ॥"
For Private and Personal Use Only