________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[दीघञ्जीवितीयः
चरक-संहिता। सार्था इत्यादि गुणाः प्रोक्ता इत्यन्तम् ।-गुणाः प्रोक्ता अर्थात् चेतनाचेतनसाधारणद्रव्याणाम् । तत्रार्थाः शब्दस्पर्शरूपरसगन्धा इति वक्ष्यति । तैः सह वर्तन्ते ये ते गुदिय इति सहशब्दोपादानेन शब्दादयो गुणा यथा पञ्चभूतानामाकाशादीनां वर्तन्ते सहजखात्, तथैवाकाशादीनामुत्तरोत्तरेषां क्रमेण स्थौल्यात् तदगुणानां शब्दस्पर्शरूपरसगन्धानां क्रमेण स्थौल्यं, तत्राकाशगुणः शब्दोऽत्यनभिव्यक्तो यथा तथा शब्दस्पर्शादिसहचरिताः श्लक्ष्णखादयो गुणा अत्यनभिव्यक्ताः सन्तीति ख्यापितम् । ते चात्यनभिव्यक्तखात् महाभूतोपदेशे तूपदेष्ट्रमिनोपदिष्टाः। पूर्वभूतानुप्रविष्टवाय्वादिषु किश्चित्स्स्थ लीभूयानभिव्यक्ताः पुनः पञ्चभूतात्मकद्रव्येषु गुळदयो गुणा अभिव्यज्यन्ते । यथाकाशेऽत्यनभिव्यक्तः शब्दः सगुणमेव द्रव्यमुत्पद्यते नागुणमिति ख्यापनार्थ वाय्वादिषु स्पर्शा दिवदुपदिष्टः । पूर्वपूर्वभूतानुप्रविष्टवाय्वादिषु क्रमेण स्थूलीभूयानभिव्यक्ताः पुनः पाश्चभौतिकेष्वभिव्यज्यन्ते इति। शब्दश्च गुर्बादयश्च कार्य गुणा इत्यभिप्रायेण वैशेषिके कणादेन प्रकृतिगुणमध्ये शब्दो गुदियश्च गुणा न पठिता घटादिकार्यद्रव्यवत् । अन्यथा कि पाश्चभौतिकद्रव्ये शब्दो गुदियो निरुपादाना जायन्ते इति। गुह्यदय इति गुरुलघुशीतोष्णस्निग्धरुक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशद-पिच्छिल-खरममृणस्थूलमूक्ष्मसान्द्रद्रवा इति विंशतिः शारीरगुणाः स्वय वक्ष्यन्ते।।
बुद्धिरिति। योऽभिधीयते महानिति, सपमा सा च सत्त्वमुपाददाना व्यक्तविवर्त्तिता विशिष्टा पूर्वस्वरूपा त्रिगुणवैषम्यात्मिका, तस्याः समयोगजनिताश्चेतना मिथ्यायोगजनिता चाहमिति मतिरहम्मतिरहङ्कारो बुद्धिः; स च त्रिविधोऽहङ्कारः, तथा तैरहङ्कारैरवस्थात्रये तस्याः समयोगजनिताः सांसारिकीधृतिधीस्मृतयश्चेत्येताः सा बुद्धिशब्देनोच्यन्ते । ताः पुनः इन्द्रियार्थसन्निकर्षात् समयोगादिभिर्जायमानचाक्षुषादयो बुद्धयः क्षणिका निश्चयात्मिकाश्च भ्रमसंशयाख्याश्चेत्येवमुक्तं सर्वमिदं शानं कार्य्यभूता बुद्धिरुच्यते।
गोचरा विषया गुणाः” इति। एते च वैशेषिकाः, यतः आकाशस्यैव शब्दः प्राधान्येन, वायोरेव स्पर्शः प्राधान्येन, एवमग्नवादिषु रूपादयः ; अन्य गुणानाञ्चान्यत्र दर्शनं भूतान्तरानुप्रवेशात्, वचनं हि "विष्टं ह्यपरं परेण" इति। गुादयस्तु गुरुलघुशीतोष्णस्निग्धरुक्ष
For Private and Personal Use Only