________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः सूत्रस्थानम् ।
___७६७ आगन्तुर्हि व्यथापूव्वमुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति । निजे तु वातपित्तश्लेष्माणः पूर्व वैषम्यमापद्यन्ते, जघन्यं व्यथामभिनिव्वर्त्तयन्ति ॥ ५ ॥
तेषां त्रयाणामपि दोषाणां शरीरे स्थानविभागमनुव्याख्यास्यामः । तद यथा-वस्तिः पुरीषाधानं कटी सक्थिनी पादावस्थीनि च वातस्थानानि। तत्रापि पक्वाशयो
गङ्गाधरः-तत्र हेतुमाह-आगन्तु त्यादि। जघन्यमिति पश्चात् । वैषम्य मापादयतीति वातादिवैषम्यप्रेरको भवति इत्यर्थः । पूर्व व्याधावपनिपतति दुःखं प्राक् व्यथाया जघन्यमुत्तरकालं वातादिवैषम्यमापादयति। निजे तु वातादयः पूर्व पश्चाद्वायां तत्रोत्पादयन्ति परं दुःखमाधिदैवमाधिभौतिकमाध्यात्मिकं वा। इति आगनुनिजयो पूर्वोत्तरकालं व्यथादोपवैषम्यदोपवैषम्यव्यथात्मकभेदकलक्षणम् । अत्र वातजस्य पित्तनानुबन्धकत्वे मिश्रीभावे को भेद इति नाशङ्काः, तयोमिश्रीभावे स्वस्वलक्षणमेव भेदकमलं तदुक्तेनेति । अथ प्रकृत्यधिष्ठानसमुत्थानं ज्ञात्वा कर्माचरणमुपदिष्टम्। तत्रागन्त्वादिप्रकृतिरुक्ता ॥५॥
गङ्गाधरः-असात्मेन्द्रियार्थसंयोगादिसमुत्थानमुक्तम् अधिष्ठानन्तु कि तावद्वातादीनामित्यत आगन्तोर्वातादीनान्तु स्थानेषु वक्तव्येषु तत्रागन्तोः स्थानप्रतिनियमाभावेन, वातादीनान्तु स्थाननियमाद्वातादीनां स्थानान्याहतेषामित्यादि किंवा वातादीनां मिश्रीभावे सन्देहनिरासार्थ भेदकस्थानान्याह-तंपामित्यादि। त्रयाणामपीत्यपिशब्दः समुच्चये। निजागन्तुभेद उक्तः, त्रयाणाञ्च दोषाणां मिश्रीभावे सन्देहनिरासार्थ स्थानविभागमनुव्याखवास्याम इति भावः।
तद्यथेत्यादि। वातस्थानानीति प्राणादिभेदेन हृत्कण्ठवह्निपायुसर्बाङ्गेषु पकाशये च नित्यं स्थितस्य वातस्य शीर्षादिविशेषसञ्चारस्थानवदेतानि वस्त्या
चक्रपाणिः--आगन्तुनिजयोर्भेदक लक्षणमाह-आगन्तुस्त्यादि। आगन्तुरुत्पन्नः सन, व्यथापूर्वमिति पीड़ां प्रथमं कृत्वा पश्चाहोपाणां वैषम्यमिति दोषवैषम्यलक्षणमुक्तम्,-स्वलक्षणकारकन्तु वैषम्यमागन्तोरादितः प्रभृति विद्यमानमप्यकिञ्चित्करमिति भावः ॥ ५॥
चक्रपाणिः-आगन्तुनिजयोर्भेदकं लक्षणमभिधाय निजविकारकराणां वातादीनां भेदज्ञानार्थम्
For Private and Personal Use Only