________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६६ चरक-संहिता।
[महारोगः चाराभिशापबध-बन्धनव्यधन-वेष्टन-पीड़नरज्जुदहनशस्त्राशनिभूतोपसर्गादीनि। निजस्य तु खलु मुखं वातपित्तश्लैष्मिकं वैषम्यम् ॥३॥ ___ द्वयोस्तु खल्वागन्तुनिजयोःप्रेरणमसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति। सर्वेऽपि खल्वेते प्रवृद्धाश्चत्वारो रोगाः परस्परमनुवघ्नन्ति। न चान्योन्येन सह सन्देहमापद्यन्ते ॥ ४॥ तिस्रषणीये भूत विषवाय्वग्नीत्यादिनागन्तुकारणान्युक्तानि तथाप्यत्र प्रकरणात् भाष्यरूपेण तद्विग्रव्यवसायाथे पुनरुक्तान्यपुनरुक्तानि भवन्ति। निजस्येति शरीरदोपसमुत्थस्य विशिष्टस्य ज्वरादिरूपस्य धातुवैषम्यस्य निजले तस्य स्व हेतुखासम्भवात् वैषम्यं प्रत्येकशो हानिराधिक्यश्च संसृष्टानामपि सन्निपतितानां हस्वद्धसंसृष्टसाम्यश्च । एतानि खल्वागन्तुनिजयाः कारणानि कत्तु भूतानि सन्निकृष्टानि । प्ररणमिति प्ररयतीति कत्तेरि कृन् प्रयोजकमित्यर्थ । तेन नखादिपातनादेर्वातादिवैषम्यस्य च प्रयोजकमसात्मेन्द्रियार्थसंयोगादित्रयं बोध्यम् । ज्वररक्तपित्तादीनां प्रतिनियतकारणमिथ्याहारादीनां वातादिप्रेरकववत् ज्वरादिजनकखमप्यस्तीति न्यूनखदोषो नाशङ्काः। तत्रापि मिथ्याहारादीनां प्रतिनियतज्वराद्यारम्भकतया वातादिप्रेरकख न तु व्याधिजनकखम् । साक्षादेव यत्र तु बाह्यहेतूनां वातादिन रकखवत् साक्षायाधिजनकख तत्र तज्जत्वेनैवाचाय्याधयो व्यपदिश्यन्ते । यथा मृत्तिकाजपाण्डुरोगादयः । एतेन रक्तादिजत्वेन गुल्मादीनां व्यपदेशो व्याखबातो भवति। अनुवचन्तीत्यनुगच्छन्तीति । अष्टोदरीये यदेतदुक्तम्-आगन्तुरन्वेतीत्यादिना तदागन्तुनिजयोः परस्परानुवन्धकखवचनमप्यत्र वातजादीनामन्यतमानुबन्धकखरखाापनाथमत्र पुनरुक्तम्। नन्वतिद्धत्वे वातजपित्तजकफजागन्तुजानामन्यतमानुबन्धकत्वे मिश्रीभावेणागन्तुनिजयोनिजागन्तुजान्यतमत्वेन सन्देहः स्यादिति चेत् ? नेति । अर्थमाह-न चेत्यादि। तथाखेनान्योन्येन ते रोगा न सन्देहत्वमापद्यन्ते परस्परानुबन्ध्यत्वे ॥३॥४॥ कारणम्, अनेकार्थत्वाद्धातूनाम्। अनुबध्नन्त्यनुगच्छन्ति । न सन्देहमापद्यन्त इति न सन्देहविषयता मापद्यते । मिश्रीभूता अपि प्रतिसंभिन्न क्षणैर्भदा ज्ञायन्त इत्यर्थः ॥ ३॥४॥
For Private and Personal Use Only