________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः सूत्रस्थानम्।
७६५ अपरिसंख्येयाः प्रकृत्यधिष्ठानलिङ्गायतनविकल्पविशेषाणाम् अपरिसंख्येयत्वात् ॥ २ ॥
मुखानि तु ग्वल्वागन्तोनखदशनपतनाभिघाताभिषङ्गाभिस्थानसंस्थाननामभिः॥” इत्यनेनापरिसंख्येयखस्योक्तत्वेऽपि पुनरिहापरिसंख्येयववचनं रोगपरिसंव्योपदेशप्रकरणखान पुनरुक्तं बोध्यम् । किंवा उक्ततत्प्रकारा विविधप्रकारेणात्रापरिसंख्येयववचनमिद समग्रोपादानाथमिति न पुनरुक्तम् । अत्र हि प्रकृतिः समवायिकारणम् । प्रकृतिभूतद्रव्यं वातादिः । अधिष्ठानमपि दृप्यत्वेनावस्थानं रसरक्तादि। लिङ्ग लिङ्गीभूतज्वरादीनां 'लङ्गम् । आयतनं वातादीनां पकाशयादि। तथा चात्रोक्तानां तत्रोक्तानाञ्च प्रकृत्यादीनां रुजावर्णादीनाञ्च विकल्पविशेषाणामपरिसंख्य यखाद्विकारा अपरिसंख्य या इति पय्येव सितोऽर्थी बोध्यः । तद्यथा-दोषदृष्यलिङ्गीभूतलिङ्गपकाशयादीनां रुजावणेवाह्य हेतुरात्रिजागरणादिगात्रप्रदेशविशेपलिङ्गनाम्नाश्च विशेषाणां विकल्पेन तद्भदै भवन्त्यपरिसंख्य या रोगा इति निष्कर्षः। दोपा हि संसगांशांशयोविकल्पेनापरिसंखोयाः। दृष्याश्च रसादयः शरीरावयवाः परस्परमेलकाल्पवाधिकवादिना विभज्यमाना अपरिसंवायाः। लिङ्गानि च लिङ्गीभूतानां ज्वरादीनां प्रत्येकशश्चापरि संखायनानि तन्त्रे वाचायेणाविष्कृततमान्युपदिश्यन्ते। आयतनानि च वातादीनां शरीरप्रदेशेऽपरिसंवायान्याचारायणाविष्कृततमानि कतिचिदुपदिश्यन्ते ॥२॥
गङ्गाधरः-एषाम् अव्यवहितपूर्ववर्त्तिकारणान्याह-मुखानीत्यादि । यद्यपि विकारा इत्यादि। पुनरिति वक्ष्यमाणप्रकारान्तरेण, प्रकृतिः प्रत्यासन्नं कारणं वातादि, अधिष्टानं दृष्यं, लिङ्गानि लक्षणानि, आयतनानि वाह्यहेतवो दुशाहाराचाराः ; एषां विकल्परूपो विशेषो विकल्पविशेषः : तेपामपरिसख्येयत्वादिति- अत्र दोषाः संसगीशांशविकल्पादिभिरसंख्येयाः ; दृष्यास्तु शरीरावयवा 3 णुशः परस्परमेव मेलकेन विभज्यमाना असंख्येयाः ; लिङ्गानि कृत्स्नविकारगतान्यसंख्येयान्येव, आविष्कृतानि तु तन्त्रे कथितानि ; हेतवश्वावान्तरविशेषादसंख्येयाः ; प्रव्यक्ता एवं विकाराः। केचित् पुनरेषामिति पठन्ति, स तु पाठो नानुमतस्तावत्, यदि च स्यात्, तदा देहमनःप्रत्यवमर्पकम् – 'एषाम्' इति पदम्। बहुवचनन्तु मनःशरीरयो हुत्वविवक्षया ॥ ॥२॥
चक्रपाणिः- मुखानि कारणानि, यथा “रजस्वलागमनमलक्ष्मीमुखाणाम् इति। प्ररणमिति
For Private and Personal Use Only