________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६४ चरक-संहिता।
[महारोगः द्विविधञ्चैषामधिष्ठानं मनःशरीरविशेषात् । विकाराः पुनः तु सञ्चयनिरपेक्षप्रकोपेणेति नागन्तुलम्। तिस पणीये तु यदुक्तमागन्तुत्वं भूतविषवाय्वग्निसम्पहारादिसमुत्थ इत्यनेन तत्रागन्तुशब्देन विरुध्यते। तत्र हि मानसनिजागन्तुजास्त्रिधा व्याधय एवोक्ताः। अत्र तु निजागन्तुजावेव शारीरव्याध्यधिकाराभिप्रायेणागन्तुनिजभेदादित्युक्तो। द्विविधञ्चैषामधिष्ठानं मनःशरीरविशेषादित्युक्तेने चानुपपत्तिः । शारीराणां कामभयादिजज्वरादीनां मनोऽधिष्ठानाभिप्रायात् । न तु मानसकामादिव्याधेरधिष्ठानाभिप्रायेण मनःशरीरविशेषादित्युक्तम्। अथापस्मारोन्मादादीनामुभयाश्रयत्वं तदा किं तेषां मानसखम्, किं शारीरत्वं ? न तावन्मानसत्वं शारीरदोषजन्यखात् न वा शारीरत्वं मनःसंश्रयत्वात्। किन्तु मानसातिरिक्तशारीरातिरिक्तखाभ्यामत्र मानसव्याध्यतिरिक्तत्वमेवास्तीति। मानसव्याध्यतिरिक्तव्याध्यधिकारोऽयं रोगचतुष्क इति च नाशङ्का चतुर्णामपि रोगाणां रोगखमेकविधं भवति रुक्सामान्यादिति वचनानुपपत्तः। यदि चागन्तुवातपित्तकफनिमित्तानां चतुणों रोगत्वं रुक्सामान्यादेकविधवमन्यत्र रुक्सामान्यसत्त्वे कथं ब्याहन्यत इति ? तर्हि द्विविधञ्चैपामधिष्ठानं मनःशरीरविशेषादित्यत्र मनःशरीरविशेषादित्युक्तापत्तिः स्यादिति कश्चित् । तन्न। तत्र केवलमानसव्याधेरनधिकरणखाभिप्रायेणैवोक्तं-चखारो रोगा भवन्तीत्यादि। एषां चतुर्णान्तु द्विविध. मधिष्ठानं शारीराभिप्रायेण मनःशरीरविशेषादित्युक्तम् । यद्यप्यपस्मारोन्मादादरुभयाश्रयत्वं तथाप्यपस्मारोन्मादाघारम्भकदोषस्य वातादेः प्राक्सत्त्वाल्पभावे रजस्तमसोराधिक्ये अपस्मारोन्मादादिजनकखात् शारीरत्वेऽपि क्षीणसत्त्वमानसखप्राधान्यान्मनस एवाधिष्ठानखात्। अधिष्ठानं हि न केवलमाधारवस्खात्मा तूच्यते। किन्वाधेयवस्तुनो यः स्वस्वधर्मस्तेनावच्छिन्न आधार उच्यते । यथा वगाधारकप महानसादिर्वद्भिधम्मोष्णखावच्छिन्नकर्पू खादिमान् तथा चात्र दृष्यत्वे सत्यधिकरणसमधिष्ठानखमिति बोध्यम् । सर्वेषामेव हि रोगाणामागन्तुनिजानां स्वजनितदुःखस्य मनोऽनुभूतखान्न मानसखम् न वा मनोऽधिष्टानमिति। अत ऊर्द्धश्च मुखानि तु खल्वागन्तोरित्यादिना चागन्तोः कारणोपदेशे केवलमानसव्याधेोषरजस्तमसोरदृष्टखाच्च । त्रिशोथीये "त एवापरिसंख्य या भिद्यमाना भवन्ति हि। रुजावर्णसमुत्थानएवं चतुर्विधत्वादि प्रतिपाद्य पुनः प्रकारान्तरेणाऽपरिसंख्येयतां रोगाणामाह
For Private and Personal Use Only