________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विंशोऽध्यायः। अथातो महारोगाध्यायं व्याख्यास्यामः, इतिह स्माह भगवानात्र यः // 1 // चत्वारो रोगा भवन्ति, आगन्तुवातपित्तश्लेष्मनिमित्ताः। तेषां चतुर्णामपि च रोगाणां रोगत्वमेकविधं भवति रुकसामान्यात् / द्विविधा पुनः प्रकृतिरेषामागन्तुनिजविभागात् / गङ्गाधरः-अथ त्रिवध्यायेषु तावन्तः सामान्यतो वातादिजा उक्ताः / सम्पति परिशिष्टान वातादरकजान नानाव्याधीनुपर्दष्टं महारोगाध्यायमाह--अथात इत्यादि। रोगस्यात्र महत्त्वमेकैकजनानासमिति महारोगाणां विज्ञानायाध्यायस्तं तथा इति कश्चित् / तन्न। संग्रह श्लोके सम्यङ महति रोगाणामध्याये तत्त्वदशिनति स्ववचनविरोधात् / तेन रोगाणामध्यायः रोगाध्यायः। महांश्चासौ रोगाध्यायश्चेति महारोगाध्यायः। पूर्वाध्यायापेक्षयास्य महत्त्वादिति / स पूव्वाध्यायवद्वग्राख्येयम् // 1 // गङ्गाधरः--चखार इत्यादि / यद्यपि तिस्रपणीये त्रयो रोगा इति निजागन्तुमानसा इत्युक्तं, तथापि मानसव्याधेरागन्तुलख्यापनार्थ पुनरिहोच्यतेआगन्तुरित्यादि-इति कश्चित् / तन्त्र / वचनमिदं हि शारीरख्याध्यभिप्रायेण / तत्र हि शारीरमानसोभयाभिप्रायेण तवचनमुक्तम् / तेषामित्यादि। रुक्सामान्यादिति धातुवैषम्यसामान्यात् दुःखनसामान्याद्वा। प्रकृतिः समवायिकारणं स्वभावो वा / आगन्तुत्वं पूर्वसञ्चयदोषानपेक्षत्वे सति दुःखजनकसम् / मानसव्याधिकामादिदण्डायभिधाताभ्यां जातज्वरादेश्च जनकयोर्मानसदोषदण्डायभिघातायोः पूर्वसञ्चयापेक्षाशीलखाभावादागन्तुलम् / पूर्वाह्नादिकालिककफादेः शेषरात्रादिसश्चयापेक्षप्रकोपेण ज्वरादिव्याधिजनकखम्। न चक्रपाणिः- पूर्व सामान्येन वातादिजन्या उक्ताः, सम्प्रत्यवशिष्टान् केवलवातादिजन्यान् अभिधानु महारोगाध्यायोऽभिधीयते। आगन्तोरुक्तस्यापि त्रिशोथीये पुनरिह विशेषण लक्षणाभिधानार्थमभिधानम् / प्रकृतिरिह स्वभावः / मन शरीरविशेषादिति भागन्तोरपि मनः शरीरचाधिष्ठानम्, एवं निजस्यापि ; आगन्तुग्रहणेन च मानसोऽपि कामादिगं यते। For Private and Personal Use Only