________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 762 चरक-संहिता। (भष्टोदरीयः तत्र श्लोको। विंशकाश्चैककाश्चैव त्रिकाश्चोक्तास्त्रयस्त्रयः। द्विकाश्चाष्टौ चतुष्काश्च दश द्वादश पञ्चकाः // चत्वारश्चाष्टका वर्गाः षट्को द्वौ सप्तकास्त्रयः / अष्टोदरीये रोगाणामध्याय सम्प्रकीर्तिताः // 16 // इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृत श्लोकस्थाने ऽष्टोदरीयो नाम एकोनविंशाऽध्यायः॥१६॥ गङ्गाधरः-अध्यायार्थमाह-तत्र श्लोकाविति // 16 // अध्यायं समापयति-अग्नीत्यादि / इति पूब्वेवाख्येयम् / इत्याष्टोदरीयः / इतिशब्दः समाप्तिवचनः॥ इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ मूत्र स्थानीयकोनविंशाष्टोदरीयाध्यायजल्पाख्या एकोनविंशी शाखा // 19 // बलवत्त्वादिना ; किंवा, अनुबन्धोऽप्रधानः, प्रकृतिरनुबन्ध्यः प्रधानमित्यर्थः ; यदुक्त... “स्वतन्त्रो म्यक्तलिङ्गः स्वचिकित्साप्रशमश्चानुबन्ध्योऽतो विपरीतस्त्वनुबन्धः” इति // 15 // 16 // इति चरकचतुरानन-श्रीमच्चक्रपाणिवत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान व्याख्यायाम् अशोदरीयो नाम ऊनविंशोऽध्यायः // 19 // For Private and Personal Use Only