________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। / अहोदरीयः भवतश्चात्र--- स्वधातुवैषम्यनिमित्तजा ये विकारसङ्घ। बह्वः शरीर / न ते पृथक् पित्तकफानिलेभ्य आगन्तवस्त्येव ततो विशिष्टाः॥ संस्थानप्रकृत्यात्मकलेन तांस्तान् वातादिजानेवांदरादीन् सर्वविकारान बुद्धिमन्त उपदिशन्ति / वातपित्तकफसन्निपातप्लीहबद्धच्छिद्रोदकोदराणीत्यष्टाखुदराणीति एवमादीन्। स्थानविशेषेण नाम रक्तगुल्मादुरपदेशः / संस्थानविशेषेणोपदेशस्तु इक्षुरसमेहादिव्यपदेशः। प्रकृतिविशेपेण व्यपदेशस्तु प्लीहोदरादीत्यन्ये। तन्न। स्थानविशेषखान प्लीहादेः। परन्तु शीतज्वर उष्णज्वर इत्यादि रसज्वररक्तज्वरेत्येवमादिरूपेण / किन्तु वातादिहेतुलक्षणवशाद वातादिजा एव ते सर्वे रोगा वोध्या इति // 14 // गङ्गाधरः-अत्राधिकार्थप्रदर्शनार्थमाह--भवतश्चात्रेत्यादि / अत्रापि स्वधातुवैषम्यनिमित्तजा इति पूर्ववव्याख्येयम्, तत्र बहुव्रीहिः अत्र कर्मधारयः खधातुवैषम्यपदस्य निमित्तपदेन सह / ततो जनेड इति तु यावर्थः / प्रकरणाद बहव इति बहवो रोगास्ते च विकारसंघाः स्वस्खलक्षणरूपविकारसमूहवन्तः / एतद्विशेषणेन स्वस्खलक्षणस्यापि स्वधावात्मकत्वं ख्यापितम्। शरीरे इति पदं मानसव्याध्यागन्तुव्याध्योव्यवच्छेदार्थम् / पित्तकफानिलेभ्यो न पृथङ नान्ये वर्तन्ते इत्यर्थः। अत्र पित्तस्यादावुपादानं छन्दोऽनुरोधात् / वाताद्यात्मका एव नान्यात्मकाः, यथा मृदात्मका एव घटादयः इति / आगन्तवस्तु ततो वातादिभ्यो विशिष्टा अन्ये एव। वातादिनितानपि / तत्र स्थानविशेषादपदेशो यथा----ऊरुस्तम्भरक्तमोनिकामलाप्रभृतयः, संस्थानविशेषात् पिड़कागुल्मप्रभृतयः, प्रकृतिविशेषात् इलेमप्लीहोदरप्रभृतयः / अन्ये तु व्याख्यानयन्तियतस्तानेवेति वातादिजानेवेति व्यपदिशन्ति, तदात्मकानपीति यथोक्ताष्टादिसंख्यायुक्तानपि, यद्यपि प्लीहादिकारणान्तरेण भिन्ना अपि रोगास्तथापि वातादिस्थानजन्यत्वेन तथा वातादिलक्षणयुक्तत्वेन तथा वातादिकारणजातत्वेन वातादिजा एव सविकारा इति वाच्यार्थः // 14 // ___ चक्रपाणि:--अमुमेवार्थ इलोकेनाह- स्वधात्वित्यादि।-स्वशब्दोऽग्रे वक्ष्यमाणशरीरापेक्षः, तेन शरीरधातुवैषम्यं गृह्यते, मानसन्तु प्रतिलिप्यते ; धातचश्च न स्वरूपेण रोगकारणमिति वैषम्यपदं कृतम्। आगन्तत्रो हि रोगा अभिघातज्वरादयो धातुवैषम्यजा भवन्ति, अतस्त्रदव्युदासाथै निमित्तपदम्, आगन्तुषु वैषम्यं विद्यमानमपि कारणत्वेन न व्यपदिश्यते अप्रधानत्वात् / मिन्वागन्तुरेव लगुड़ादिप्रहारस्तत्र चिकित्साविशेषप्रयोजककारणं ; निजे तु वैषम्यमेव चिकित्सा. For Private and Personal Use Only