________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 अध्यायः सूत्रस्थानम् / निर्वत्तन्ते / यथा हि शकुनिः सळ दिशः परिपतन् खां छायां नातिवर्तते. तथा स्वधातुवैषम्यनिमित्ताः सर्वे विकारा वातपित्तकफान् नातिवर्तन्ते / वातपित्तश्लेष्मणां तु खलु स्थानसंस्थानप्रकृतिविशेषान् समीक्ष्य तदात्मकानपि सर्वविकारांस्तांस्तानेवोपदिशन्ति बुद्धिमन्तः // 14 // प्रत्यनीकचिकित्सा न काय ति ज्ञापनाय निजा इत्युक्तम् / अत्र दृष्टान्तमाह ---यथा हीत्यादि। शकुनिः पक्षो / सुश्रुतेऽप्युक्तं-“सङ्घषाश्च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गलाददृष्ट कलखादागमाच / यथा हि कृत्स्नं विकारजानं विश्वरूपेणावस्थितं सत्त्वरजस्तमांसि न व्यतिरिच्य वर्तन्ते, एवमेव कृत्स्नं विकारजातं विश्वरूपेणावस्थितमव्यतिरिच्य वातपित्तश्लेष्माणो वर्तन्ते” इति / तथा स्वधातुवैषम्यनिमित्ता इति स्वपदेन वाताय. न्यतमज्वरादीनां पित्तादिव्यतिरिक्तवं ख्यापितम् / धातुपदेन वायहेतुव्यायामादिकदादिगुरुमधुरादीनां वाह्यहेतूनां निरासः / उक्तं हि “जायन्ते हेतवैषम्याद्विपमा देहधातवः” इति / वैषम्यपदेन साम्यनिमित्तानामुत्साहादीनां दर्शनादीनां स्नेहादीनाश्च निरासः। निमित्तपदेन न पश्चात् धातु. वैपम्यजनकानामागन्तूनां दण्डायभिघातादीनां निरासः : न हि दण्डाभिघातेन जाताः क्षतादयः पूर्व धातुवैषम्यनिमित्ता भवन्तीति / एवं सर्वे विकारा इति ज्वरादिरूपाः न तु वातादिवैषम्यरूपाः। इति च निमित्तपदेन ख्यापितम्। ननु प्लीहोदरादयः पूर्वमेवागन्तु विनव स्वधातुवैषम्यनिमित्ताः पृथङ्। निर्दिष्टाः किं दोषागन्तुभ्यामतिप्रोच्यन्ते इति ? अत आह-वातपित्तेत्यादि। प्लीहादयो हि पूर्व वाताद्यविनाभूता भवन्ति। वातेत्यादि। वातादीनां स्थानं रसादि पक्काशयादि, संस्थानं लिङ्गम्, प्रकृतिः समवायिकारणं रोक्ष्यादिगुणः, तेषां विशेषान प्रभेदानभिसमीक्ष्य तदात्मकान् धातुस्थानअपि दोपसम्बन्धो न व्यभिचरति, तथाप्यागन्तो रोगे दोपापेक्षया न चिकित्सेत्यागन्तुच्युदासाथ निजा इत्युक्तम् / स्वशब्देनागन्तुकृतं धातुवैषम्यं निराकरोति ; ननु यदि वातादिजन्या एच सर्व विकारास्तत् किमर्थमन्यथाप्युदरादयः प्लीहजत्वादिभिः निईश्यन्त इत्याह-वातपित्तेत्यादि / --स्थानं रसादयो वस्त्यादयश्व, संस्थानमाकृतिर्लक्षणमिति यावत्, प्रकृतिः कारणम्, एषां विपेपानभिसमीक्ष्य तोस्तानुपदिशन्ति “अष्टावुदराणि" इत्येवमादधपदिशन्ति ; तदात्मकानपीति For Private and Personal Use Only