________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकोनविंशोऽध्यायः। अथातोऽष्टोदरीयमध्यायं व्याख्यास्यामः, इतिह स्माह भगवानात्र यः // 1 // इह खल्वष्टावुदराणि / अष्टौ मूत्राघाताः। अष्टौ क्षीरदोषाः। अष्टौ रेतोदोषाः / / सप्त कुष्ठानि / सप्त पिड़काः। सप्त वीसर्पाः / / षड़तीसाराः / षडुदावर्ताः / पञ्च गुल्माः। पञ्च प्लीहदोषाः। पञ्च कासाः / पञ्च श्वासाः। पश्च हिकाः / पञ्च तृष्णाः / पञ्च च्छर्दयः। पञ्च भक्तस्यानशनस्थानानि / पञ्च शिरोरोगाः। पञ्च हृद्रोगाः। पञ्च पाण्डुरोगाः। पञ्चो. न्मादाः / / चत्वारोऽपस्माराः / चत्वारोऽनिरोगाः। चत्वारः गङ्गाधरः-अथ क्षुद्रव्याधीनां व्यवस्थाकरणं स्थूलव्याधिवदुक्तम, ननु स्थूलव्याधीनां व्यवस्थाकरणञ्च च किं तावदित्याकानायां त्रिशोथीयानन्तरमष्टो. दरीयमाह-अथात इत्यादि। अध्यायादौ अष्टावुदराणीति वचनस्यार्थमादाय अष्टोदरमिति पदमधिकृत्य कृतोऽध्याय इत्यष्टोदरीयस्तम् इति सर्व प्राग्वत् व्याख्यातव्यम् // 1 // गङ्गाधरः-उदररोगस्यापि शोफरूपखेन त्रिशोथीयानन्तरं प्रथममेकादि सप्तादिसङ्खाकव्याधीनामपि निर्देशश्चात्रोदेश इति 1 सप्त कुष्ठानीति प्राधान्यात महाकुष्टानि / भक्तस्यानशनस्य स्थानानि आकररूपाणि अरोचककारणम् चक्रपाणिः-पूर्वाध्याय उक्त व्यवस्थाकरगं तेषां यथास्थूलेपु संग्रहः' इति, तदनु जिज्ञासायामटादुदराणीत्यादि यथास्थूलं संग्रहोऽभिधीयते / अष्टोदरीय इति चार्थपरसंज्ञा, उदराभिधानमादी पूर्वाध्यायोक्तशोथसामान्यात्, उदराणि उत्सेधसामान्यात् शोथप्रभेदा एवं // 1 // चक्रपाणिः-इहकादिसङ्ख्यापरित्यागादसंग्रहणमादी कृतम्, अष्ठसङ्ख्याया बहुत्वेन प्राधान्यात् / विंशतिसङ्ख्या मेहादीनम् ऊनविंशत्यधःसङ्ख्यनुपूर्वीप्राप्तम्भावान्न कृतः प्रथम निवेशः ; यद्यपि चिकित्सिते अष्टादश कुष्ठानि, तयापीह महाकुष्ठाभिप्रायेण सप्लोच्यते / पड़दावत इत्यत्र न वेगान्धारणीयोक्तन्यायेन उच्चारादिनिरोधजादय उदावर्ता इहोच्यन्ते / गुल्मैाख्याता इति For Private and Personal Use Only