________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 अध्यायः / सूत्रस्थानम् / 746 तत्र श्लोकाः। सङ्ख्या निमित्तं रूपाणि शोथानां साध्यता न च / तेषां तेषां विकाराणां शोथास्तांस्तांश्च पूर्वजान् // रौक्ष्यादिवत् प्रकृतिर्भवति / तेषां वैशेष्यम् / तेषां विशेषोऽत्र पदार्थाख्यतत्रयुक्त्या आधिक्यं न तु हानिः। तस्माज्जातं प्रकृतगुणजकम्मेणामधिकवलेनानुत्तिसहितातिरिक्तं यद्यत कम्मे आध्मानादिकं तत् सर्च दोषप्रकृतिवैशेष्यम् / तत् तु पृद्धिलक्षणमित्यर्थः / उक्तं हि-"दोषाः प्रद्धाः स्वं लिङ्गदर्शयन्ति यथा. चलम्” इति / इत्थश्च वातादीनां रौक्ष्यादिगुणवृद्धया जनिताध्मानादिमिलिङ्गै रौक्ष्यादीनां वृद्धानुमानेनैव वातादीनामपि वृद्धानुमानं सिध्यति तत्तद्गुणसमुदायविशिष्टो हि वातादिः न खतिरिक्त इति ; उक्तश्च महारोगाध्यायोक्तकर्माणि प्रतिसंस्कृत्य--“आध्मानस्तम्भरोक्षास्फुटनविमथनक्षोभकम्पप्रतोदाः, कण्ठोद्धसावसादौ श्रमकविलपनं संसशूलप्रभेदाः। पारुष्यं कर्णनादो विषयपरिणतिभ्रंशदृष्टिप्रमोहाः, विस्पन्दोट्टिनानि ग्लपनमशयनं ताड़नंपीड़नश्च / / नामोन्नामो विषादो भ्रमपरिपतनं जम्भणं रोमहषों, विक्षेपाक्षेपशोषग्रहणशुषिरता च्छेदनं वेष्टनश्च। वर्णः श्यावोऽरुणो वा तडपि च महती स्वापविश्लेषसंज्ञा, विद्यात् कर्माण्यमूनि प्रकुपितमरुतः स्यात् कपायो रसश्च // विस्फोटाम्लकधूमकाः प्रलपनं स्वेदन तिमूर्छनं, दोर्गन्ध्यं दरणं मदो विसरणं पाकोऽरतिस्तृभ्रमौ / उष्माऽतृप्तितमःप्रवेशदहनं कटुम्लतिक्ता रसाः, वर्णः पाण्डुविवज्जितः कुथितता कम्माणि पित्तस्य वै॥ तृप्तिस्तन्द्रा गुरुता स्तमित्यं कठिनता मलाधिक्यम् / स्नेहापत्त्युपलेपाः शैत्यं काडूः प्रसेकश्च // शोको निद्राधिक्यं द्वावेव रसो' पटुस्वादू / वर्णः श्वेतोऽलसता कर्माणि कफस्य जानीयात् // " इति / एवमपि महारोगाध्याये वक्ष्यन्ते। नन्वतैः प्राकृतहानिद्धिलक्षणैः किं स्यादिति ? अत आह-दोषाणामित्यादि। अर्थादतरविकारजैः कर्मभिदोषाणां प्रकृतिः स्वभावनावस्था परीक्ष्यते परीक्षकैः। एतैः क्षीणलक्षणेदोषाणां हानिः परीक्ष्यते। एतैश्च वृद्धिलक्षणैर्दोषाणां द्धिः परीक्ष्यतेऽनुमानादिभिः // 46 // गङ्गाधरः-अध्यायार्थसंग्रहायाह-तत्रेत्यादि / त्रयः शोया इत्यादिना नियतमिति प्रतिनियतम् / यद्यस्य प्रकृतिलक्षणं तद् वृद्धं सत् तस्यैव वृद्धिलक्षणमित्यर्थः, अन्ये तु निश्चितमित्याहुः // 46 // चक्रपाणिः-- संग्रह शोथानां साध्यतामिति स्नेहोष्णपमईनाम्याच प्रणश्येत्, स च वातिकम For Private and Personal Use Only