________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 भध्यायः सूत्रस्थानम् / 247 वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते। कर्मणः प्राकृताद्धानिवृद्धिर्वापि विरोधिनाम् // 45 // खाभाविकगुरुता। वृषता पुंस्वशक्तिः / क्षमादयस्त्रयः प्रभावाः कफकर्माणि बलमोजःकृतम् // 44 // गङ्गाधरः-वातादीनां प्राकृतकाण्युक्ता विकृतकाण्याह-चात इत्यादि। अत्र कश्चिन् तु वृद्धिर्वापि विरोधिनामिति वातायन्यतमक्षयेऽज्यतमयद्धिर्भवतीति व्याचष्टे, तन्न। युगपत्त्रयाणां क्षयानुपपत्तेः पित्तद्धौ श्लेष्मणः सव्वाशेन विनाशापत्तेश्च / वस्तुतस्तु क्षीणा जहति लिङ्गं स्वम्' इत्युक्त्या इदमेव बोध्यम् / तदयथा 'कर्मणः प्राकृताद्धानिः' इति वातस्य प्रकृतिस्थस्य प्राकृतं कर्म उत्साहादिकमुक्तं यत् तस्माद्धानिरपचयः। अल्पोत्साहोऽनुत्साहः अल्पो. छासोऽल्पनिश्वासः / अल्पचेष्टा / रसादीनामुत्तरोत्तरधातुपोषकलमल्पम् / मलादीनामल्पमोक्ष इति क्षीणवातस्य कर्म। अथवा प्राकृतादुत्साहादिकर्मणो विरोधिनामनुत्साहादीनां वृद्धिरिति तत्तदेव कम्मै लभ्यते। क्षीणे वातस्येति तुल्यमेव क्षयलक्षणमुभयथैव भवतीति वाशब्द उपात्तः। एवं पित्तस्य प्रकृतिस्थस्य यद् यत् प्राकृतं कम्म दर्शनादिकमुक्तं तस्माद्धानिरपचयस्तस्माद्वा विरोधिनामदर्शनादीनां वृद्धिः पित्ते क्षीणे लक्षणमुच्यते। तथा च पित्तक्षयेऽल्पदर्शनमदर्शनं वा। अल्पपक्तिरपक्तिर्वा। अल्पोष्मानुष्मा वा। अल्पक्षुधा अक्षुधा वा, अल्पतृष्णा चातृष्णा वा, देहमादेवमल्पं न वा, अल्पप्रभा अप्रभा वा, मनसश्वाल्पप्रसादोप्रसादो वा, अल्पमेधा चामेधा वेति भवतीति। एवं कफस्य प्रकृतिस्थस्य प्राकृतं कर्म स्नेहादिक यद्यदुक्तं तस्मात् तस्मात् कम्मेणो हानिरपचयस्तत्तत्कम्मणो विरोधिनां रौक्ष्यादीनां वृद्धिर्वा कफे क्षीणे लक्षणमुच्यते। तथा च श्लेष्मक्षये देहस्याल्पस्निग्धखं रौक्ष्यं वा, शरीर श्लेष्मणः प्रभावात् क्रियन्ते, एवमन्यत्रापि ज्ञेयम् / कर्मणः प्राकृतादिति वातादिप्रकृतिकर्मत्वेनोक्तादुत्साहादेः, हानिरपचयः। वृद्धिापि विरोधिनामिति–उक्तप्राकृतलक्षणविरोधिनां कर्मणां वृद्धिः, यथा-वातक्षये उत्साहविरोधिनी विषादस्य वृद्धिः, पित्तक्षयेऽदर्शनापत्यादीनाम्, श्लेष्मः भये रौक्ष्यादीनां वृद्धिः, इह प्राकृतकर्महानौ सत्याम् नावश्यं विरोधिक वृद्धिरत उक्त वृदिर्वेत्यादि, न झवश्यमुत्साहहानावल्पमात्रायां सत्यां विषादो वईते, अलोभन्यूनत्वे वा मनाक लोभो वर्द्धते ; किंवा, उत्साहायभावेनाभावमुखेन ज्ञानार्थ 'कर्मणः प्राकृतादानिः' इत्युक्तम्, विषादवृद्धा तु विधिमुखेन ज्ञानार्थं 'वृद्धिापि विरोधिनाम्' इत्युतम् ; यदुच्यते-वृद्धिर्वापि For Private and Personal Use Only