________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [त्रिशोथीयः उत्साहोच्छासनिश्वास-चेष्टा धातुगतिः समा। समो मोक्षो गतिमतां वायोः काविकारजम् // 42 // दर्शनं पक्तिरुष्मा च क्षुत् तृष्णा देहमाईवम् / प्रभा प्रसादो मेधा च पित्तकाविकारजम् // 43 // स्नेहो बन्धः स्थिरत्वञ्च गौरवं वृषता बलम् / क्षमा धतिरलोभश्च कफकर्माविकारजम् // 4 // चावश्यविज्ञ या भवन्तीति? अत आह--नित्या इत्यादि। वातपित्तकफास्त्रयः समस्ता एव न खन्यतमः | विकृताः क्षीणा वा द्धावा ये क्षीणद्धसंसृष्टसमाना वा। प्रकृतिस्था वा। क्षीणा वा वृद्धा वा क्षीणद्धसंसृष्टा वा ये केऽपि भवन्तु ते केनचिद्रूपेण प्राणभृतां देहे नित्या एव सततसम्बन्धा एव सन्तः सव्व क्रियाहेतव एव भवन्ति। पण्डितस्तान विकृतान् वा प्रकृतिस्थान वा वातपित्तकफार बुभुत्सेत ज्ञातुमिच्छेत् // 41 // गङ्गाधरः-- तत्रादौ प्रकृतिस्थानां लक्षणान्याह... उत्साहोच्छासेत्यादि / चेप्टेति यथार्थभूता वाङ्मनःशरीरमत्तिः समा चेष्टा / धातुगतिः परपरधातुपोषकतया गमनमवस्था वा समा अविकृता। गतिमतां मूत्रपुरीपादीनां समो मोक्षो यथाकालं यथामानं वहिर्मोचनम् // 42 // गङ्गाधरः- अथ पित्तकण्यिाह-दर्शनमित्यादि। दर्शनमित्यादिषु पित्तस्य प्राकृतकर्माणि / पक्तिभुक्तानां पाकः / उष्मा देहे स्वाभाविकमौष्णा पाचकाग्निर्वा। प्रभा देहकान्तिः। प्रसादो मनःप्रसन्नता // 43 // गङ्गाधरः-स्नेह इत्यादि। स्नेह इत्यादिना कफस्य प्राकृतकर्माणि / स्नेहः शरीरस्य चक्कण्यम् / बन्धः सानुबन्ध इति कश्चित् / शरीरावयवसम्धीनां बन्ध इति युक्तः। स्थिरखमशिथिलसम् / दहस्य गोरवं देहस्य स्थानाम् अप्रकृतिस्थानाच लक्षणं वक्त माह-नित्या इत्यादि। बुभुत्सेत ज्ञातुमिन्छेत् // 41 // चक्रपाणि:-चेष्टेत्यविकृता चेशा / धातुगतिरिति रसादीनां पोध्यं धातुं प्रति गमनम। पतिमतामिति पुरीषादीनां वहिनि सरताम्, प्रसादो मनःप्रसादः, बन्धः सन्धिबन्धः, स्थिरत्वम भशैथिल्यम्, गौरवं प्राकृतं शरीरगौरवम्, क्षमा सहिष्णुता, तिर्मनसोऽचानल्यम्, भमादयश्च For Private and Personal Use Only