________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८श अध्यायः 745 सूत्रस्थानम् / तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च / समुत्थानविशेषांश्च बुद्धा कर्म समाचरेत् // 36 // यो ह्य तत् त्रितयं ज्ञात्वा काण्यारभते भिषक / ज्ञानपूर्व यथान्यायं स कर्मसु न मुह्यति // 40 // नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः। विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः॥४१॥ दीनां कारणविशेषतश्च नामतः स्थितिरस्ति / ततो येषां स्थानान्तरगतः सन् चकारात् तत्स्थानस्थोऽपि वा बहून् विकारानतीसाररक्तपित्ताव्यतिरिक्तान् कुरुते। ततो नामभेदतः स्थितिर्न ध्रुवास्ति। नन नामाशाने सति कथं चिकित्सितव्यमिति, अत आह-तस्मादित्यादि। तस्मादिति व्याधीनां नाम्नः स्थितेरवसा / विकारमकृतीया॑धीनां समवायिकारणानि वातादिदोषान् रसरक्तादिदूष्यांश्च तेषां कार्य दृष्ट्वाऽधिष्ठानान्तराणि च बुद्धा कम्मे चिकित्सितं समाचरेत् / नन्वामाशयगतपक्काशयगतवातयोः रुक्षस्वेदं स्नेहपूर्वस्वेदं न प्रयुज्य सर्वत्र रुक्षो वा स्निग्धो वा स्वेदः प्रयुज्यतामिति ? अत आह - अधिष्ठानेति। आशयान्तराणि। ननु मृत्तिकानपाण्डुरोगादीनां प्रकृतिर्वातादीनां विशानेन न प्रशमो भवतीति तत्र का गतिरिति 1 अत आह- समुत्थानेत्यादि // 39 // ___ गङ्गाधरः- एतत्रितयविज्ञानपूर्वककम्र्मकरणे फलमाह-यो हेतदित्यादि / ज्ञानपूर्व मिति व्याधीनां प्रकृत्यधिष्ठाननिदान विशेषज्ञानानन्तरं तत्र यस्य यत् प्रतिक्रिया तस्याः क्रियाया ज्ञानपूर्वकं यथान्यायं यस्मिन् व्याधौ यत् कम्मे शास्त्रोक्तं तस्मिन् व्याघौ तत् कम्मे यो भिषक् आरभते स भिषक कम्मसु व्याधिप्रतिकारकम्मसु न मुह्यति // 40 // गङ्गाधरः-नन्वेवं सति व्याधीनां प्रकृत्यादीनां शानस्यावश्यकखे के "करोति गलमाश्रितः। कण्ठोद ध्वंस कासञ्च स्वरभेदमरोचकम्" इति। अधिष्ठानान्तराणि भाशयान्तराणि, ज्ञानपूर्वमिति चिकित्साज्ञानपूर्वकं, यथान्यायं यथागमम् ; एवं मन्यते-- थद, वातारब्धस्वादिज्ञानमेव कारणं रोगाणां चिकित्सायामुपकारि, नामज्ञानन्तु व्यवहारमात्र प्रयोजनार्थ, न स्वरूपेण चिकित्सायामुपकारीति // 38-40 // चक्रपाणिः सम्पति वातादिज्ञानेन रोगज्ञानमुद्दिष्टं तेनोपोद्घातेन बातादीनां प्रकृति For Private and Personal Use Only