________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 744 चरक-संहिता। / त्रिशोथोयः व्यवस्थाकरणं तेषां यथा स्थूलेषु संग्रहः / तथा प्रकृतिसामान्य विकारेषूपदिश्यते // विकारनामाकुशलो न जिहीयात् कदाचन / न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः // 38 // स एव कुपितो दोषः समुत्थानविशेषतः। स्थानान्तरगतश्चापि विकारान् कुरुते बहून् / नन्वेवं चेदपरिसंख्येयवं व्याधीनां कथ चिकित्सितु व्यवहर्त्तव्यमिति ? अत आह-व्यवस्थेत्यादि। तेषां परिसंख्याविहीनानां व्याधीनां चिकित्सार्थ स्थूलेषु रोगेष्वष्टोदरीयोक्तेषु यथा संग्रहः सझे पो व्यवस्थाकरणं संख्ययोक्तार्थमुपदिश्यते तथा संख्ययाऽनुक्तेषु विकारेषु प्रकृतिसामान्यं समताकारणसमानताव्यवस्थाकरणमुपदिश्यते / प्रकृतिभूतकारणवातादिसामान्यं हि सर्वेप्येव व्याधिषु वर्तते। तदभेदेन सव्वेषां व्याधीनां संख्या व्यवस्था कर्तव्येति भावः। विकारेष्वपि दृश्यते इति पाठेऽपि तुल्यार्थः। वक्ष्यते ह्यष्टोदरीये "सचे विकारा वातपित्तकफान् नातिवत्तन्ते" इति / ननु रुजावर्णादिभेदेन ज्ञातत्वे चिकित्साविशेषात् तस्य शानमावश्यक मन्यथा तद्रोगस्य रुजावणनामाद्याने प्रतीकारो न भवतीति ? अत आहविकारनामेत्यादि। विकाराणां ज्यररक्त पित्तादिनामभेदेनाविदितवान् चिकित्सितुमिति शेषः / लज्जाभावे हेतुमाह-न हीत्यादि // 37 // 38 // गङ्गाधरः कुतो नामतो न ध्रुवा स्थितिरिति ? अत आह--स एवेत्यादि / स एव ज्वरादितत्तद्वप्राध्यारम्भक एव दोषः पुनः समुत्थानविशेषतः अतीसाराशोषादिसंज्ञा। नन्वेवमपरिसंख्येयत्वे कथं व्यवहार इत्याह-व्यवस्थेत्यादि / व्यवस्थाकरणं चिकित्साव्यवहारार्थ संख्याकथनम् / यथास्थूलेविति ये ये स्थूला उदरमूत्रकृच्छ्रादयः तेषु संग्रहो. ऽष्टोदरीयरोगसंग्रह इत्यर्थः। स्थूलेषु विकारेषु अशोदरीये संज्ञयाऽनुक्तेषु कथं व्यवस्थाकरणमित्याह-तथेत्यादि। प्रकृतिसामान्यं समानकारणता, तेन अनुक्त षु साक्षाद व्याधिषु, वातजोऽयं इलेप्मजोऽयमिति तथा रसजोऽयम् रक्तजोऽयमित्यादिका चिकित्साग्यवहारार्थ व्यवस्था कर्तव्येति भावः ; अत एवाशोदरीये वक्ष्यति—"सचे विकारा वातपित्तकफान् नातिवर्तन्ते' इति / ज्वररक्तपित्तादिवन्नामाज्ञालेप वातादिजन्यत्वज्ञानेनैव प्रचरितम्यमित्याह-विकारेत्यादि / स्थानान्तरगतश्चेत्यत्र चकार एकस्थानगतोऽपि बहुविकारं करोतीति समुचिनोति, यतो वक्ष्यांत For Private and Personal Use Only