________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 अभ्यायः। सूत्रस्थानम्। साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः। मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः // 37 // त एवापरिसंख्यया भिद्यमाना भवन्ति हि / रुजावर्णसमुत्थान-स्थानसंस्थाननामभिः // प्रयोजनसिद्धिं न करोति ते रोगाः प्रत्याख्यया इत्यर्थः / विद्वानिति साध्यतासाध्यवादिसर्वप्रकारेण व्याधि तदुपक्रमश्च सव्वथैव विदितवान् , तान्नोपाचरेत् // 36 // गङ्गाधरः---एवं मृदुदारुणभेदेन साध्यस्यासाध्यस्य च भेदानुपसंहरतिसाध्याश्चैवेत्यादि। मृदुदारुणभेदेनेति मृदुसाध्या दारुण साध्या मृदुसाध्या दारुणासाच्या इति चतुविधा भवन्ति। अत्रासाध्यानां मृदुत्वं याप्यत्वं दीघेकालेन मारकखम्। दारुणवन्तु प्रत्याख्येयत्वं सद्यःप्राणहत्त वञ्चेति कश्चिन, तन्न। कालान्तरेण मारकत्वेऽपि च दारुणखात्। तस्य हि प्रत्याख्येयत्वमस्त्येवेति। त एवेति चतुविधा एव रुजा वातादिकृतवेदना चिमिचिमादिरनेकः / वर्णा अपि वातादिकृताः श्यावादयो बहवः। समुस्थानानि वातादीनां कारणानां कारणानि। रुक्षजागरणादीनि तथा स्वस्थ व्याधीनां स्वस्वकारणानि वहुनि सन्ति। स्थानानि व्याधीनाञ्च तानि तानि बहूनि गात्रप्रदेशरूपाणि सन्ति। संस्थानानि वातादिभिः समविषमसमवायारवत्वेन कृतानि रूपाणि अपरिसंख्येयानि नामानि ज्वररक्तपित्तादीनि अपरिसंख्येयानि तैर्भिद्यमानास्ते चतुविधा व्याधयो. ऽपरिसंख्यया भवन्ति / साध्याश्चेत्यादि। यात्राकरं यापनाकर, बालेरझैः, असाध्ये अज्ञा एवोत्साहात् प्रवर्तन्त इत्यर्थः। असाध्यस्य मृदारुणवं याप्यप्रत्याख्येयभेदेन, तथा सद्यःप्राणहर-कालान्तरमाणहरत्यादिना च // 33-37 // चक्रपाणि:--रुजावणेत्यादि।-समुत्थानभेदा हेतुभेदाः, रुमभोजमरात्रिजागरणादिभिन्नहेतुजम्यो हि वातो भिन्नोपक्रमसाध्यश्च भवतीति भावः ; स्थानभेदा आमाशयादयो रसादयश्च ; संस्थानमाकृतिः, यथा--गुल्मार्बुदादिः ; नामभेदो यथा---एकस्मिन्नेव राजयक्ष्मणि राजयक्ष्म. For Private and Personal Use Only