________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिशोथीयः 742 चरक-संहिता। सन्ति चैवंविधा रोगाः साध्या दारुणसम्मताः। ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः॥ 33 // साध्याश्चैवापरे सन्ति व्याधयो मृदुसम्मताः / यत्नायनकृतं येषु कर्म सिध्यत्यसंशयम् // 34 // असाध्याश्चापरे सन्ति व्याधयो याप्यसंशिताः / सुसाध्वपि कृतं येषु कम्म यात्राकरं भवेत् // 35 / / सन्ति चाप्यपरे रोगा येषु कर्म न सिध्यति / अपि यत्नकृतं * वैदैन तान् विद्वानुपाचरेत् // 36 // त्रिदोषलिङ्गा त्रयसम्भवा स्यात् / स्फोटाचिता पित्तसमानलिङ्गाऽसाध्या पदिष्टा रुधिरात्मिकेयम् / " इति। पञ्च रोहिण्यः स्युरिति // 32 / / गङ्गाधरः--नन्वेवं शीघ्रकारी किमेष एव रोगोऽस्ति, न बन्यः 1 इत्याकायायामाह-सन्ति चेत्यादि / एवंविधा इति शीघ्रकारिणो रोगाः ज्वरान्तजातकणेशोथवलयादयः। साध्या दारुणसम्प्रता इति दारुणवं विवृणोतिये हन्युरित्यादि। कुशलेनोपक्रान्तत्वे साध्यत्वम्। अकुशलेनोपक्रान्तत्वे तथा चानुपक्रान्तत्वे ये हन्युस्ते दारुणखेन साध्यतया सम्मताः // 33 // गढाधरः-दारुणवप्रसङ्गेन मृदुखादिकमप्याह–साध्याश्चेत्यादि। मृदुलं विवृणोति-यत्नायनेत्यादि / कर्मेति कर्तृपदम् // 34 // गङ्गाधरः-साध्यस्य दारुणत्वमृदुखभेदावुक्त्वा असाध्यस्य भेदमाहअसाध्या इत्यादि / याप्यसङ्गिता इति विकृणोति / येषु रोगेषु सुसाधुरूपेण कृतं कम्मे चिकित्सा यात्राकरं कालक्षेपणकरयापनाकदित्यर्थः // 35 // गङ्गाधरः-असाध्यस्य भेदान्तरमाह-सन्तीत्यादि / न सिध्यतीत्यसिद्धत्वं विकृणोति / अपीत्यादि। कुशलैरपि वैदयंत्रकृतमपि कम्मे येषु न सिध्यति भित्र सम्पयते सुखीति व्याधिमहिम्ना भवति, व्याधेश्वैतत् स्वरूपं यत् शीघ्रं हन्ति शीघ्र प्रशाम्यतीति ; यदुक्त "स शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा" इति // 32 // . चक्रपाणिः- एतदेव शीघ्रकारित्वम् अन्येष्वपि ज्वरातकर्णशोथवलयादिष्वस्तीत्याह-सन्ति हेरयमित्यादि। दारुणा इति सम्मता दारूणसम्मताः। दारुणरवप्रसङ्गेन मृदादिभेदानप्याह * बालैरिति पाठान्तरम्। For Private and Personal Use Only