________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 अध्यायः] सूत्रस्थानम् / 736 यस्य वातः प्रकुपितः कुक्षिमावार्य तिष्ठति / नाधो व्रजति नाप्यूर्द्ध मानाहस्तस्य जायते // 30 // रोगाश्चोत्सेधसामान्यादधिमांसार्बुदादयः / विशिष्टा नामरूपाभ्यां निद्देश्याः शोथसंग्रहे // 31 // गङ्गाधरः-अस्य भेदो वक्ष्यते-यस्येत्यादि। यस्य प्रकुपितो वातः कुक्षिमावाय्य तिष्ठति. नाघो नाप्यूद्ध व्रजति, तस्य स आनाहो नाम रोगो जायते // 30 // ____ गङ्गाधरः-उपसंहरति---रोगा इत्यादि। इह शोथसंग्रहे उत्सेधसामान्यात् अन्ये येऽधिमांसाधूदादयो रोगास्ते नामरूपाभ्यां विशिष्टा निर्दिष्टा बुद्धिमद्भिः / तद्यथा सुश्रुते--- “गात्रप्रदेशे कचिदेव दोषाः संमूर्च्छिता मांसममृक् प्रदूष्य / वृत्तं स्थिर मन्दरुजं महान्तमनल्पमूलं चिरद्वापाकम् / कुर्वन्ति मांसोप. चयश्च शोकं तपञ्चदं शास्त्रविदो वदन्ति / / वातेन पित्तेन कफेन चापि रक्तन मांसेन च मेदसा च। तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि समादिशन्ति // दोषः प्रदुष्टो रुधिरं सिराश्च सम्पीड्य सङ्कोच्य गतस्वपाकम् / सास्रावमुन्नाति मांसपिण्डं मांसाङ्क रैराचितमाशु सृद्धिम् // स्रवत्यजस्र रुधिरं प्रदुष्टमसाध्यमेतदूधिरात्मकं स्यात्। रक्तक्षयोपद्रवपीड़ितखात् पाण्डुभवेदबुदपीड़ितस्तु / / मुष्टिपहारादिभिरहितेऽङ्गे मांसं प्रदुष्टं प्रकरोति शोफम् / अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् // प्रदुष्टमांसस्य नरस्य गाड़मेतद्भवेन्मांसपरायणस्य // मांसाचु दन्खेतदसाध्यमुक्तं साध्येप्वपीमान्यपि वर्जयेत तु। संप्रत्रतं मर्माणि यच्च जातं स्रोतःसु वा यच्च भवेदचाल्यम् // यज्जायतेऽन्य खलु पूर्वजाते थे यं तदध्यबु दमबुदाः // यद् द्वन्द्वजातं युगपत् क्रमादा द्विरबुदं तच भवेदसाध्यम् // न पाकमायान्ति कफाशिकखान्मेदोऽधिकलाच्च विशेषतस्तु / दोषस्थिरसाद ग्रथनाच तेषां साबुदान्येच निसर्गतस्तु // " ग्रन्थिश्व सुश्रुते यथा-"वातादयो मांसमसक् प्रदुष्टाः सन्दूष्य मेदश्च ककानुबन्यम् / वृत्तोन्ननं विग्रथितन्तु शोफ कुर्चन्त्यतो ग्रन्थिरिति प्रदिष्टः // आयम्यते व्यथ्यत एति तोदं प्रभ्रश्यते कृत्यत एति भेदम् / कृष्णो. ऽमृदुवैस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् // दन्दह्यते धूप्यति चातिमात्रं पापच्यते प्रज्वलतीव चाति / रक्तः सपीतोऽप्यथवापि पित्ताद्भिन्नः स्रवेदुष्णा तीव दुष्टम् // शीतो विवोऽहपरुजोऽतिकाडुः पाषाणवत् संहन For Private and Personal Use Only