________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। / त्रिोधीमः यस्य वातः प्रकुपितः शोथशूलकरश्चरन् / वक्षणाद् वृषणो याति वृद्धिस्तस्योपजायते // 28 // यस्य वातः प्रकुपितस्त्वमांसान्तरमाश्रितः / शोथं संजनयेत् कुक्षावुदरं तस्य जायते // 26 // गङ्गाधरः-यस्य वात इत्यादि। यस्य प्रकुपितो वातो वङ्क्षणे शोथशूलकरः संश्चरन् वङ्क्षणापणौ याति, तस्य वृद्धिर्नाम रोग उपजायते इति। सुश्रुतेऽयं वृद्धिरोगः प्रपञ्चेनोक्तः। तदयथा-“वातपित्तश्लेष्मशोणितमेदोमूत्रात्रनिमित्ताः सप्त वृद्धयः। तासां मूत्राश्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतरः। अधः प्रकुपितोऽन्यतमो हि दोषः फलकोषवाहिनीरभिप्रपद्य धमनीः फलकोपयोट द्धिं जनयति, तां द्धिमिति आचक्षते / तासां भविष्यतीनां पूव्वरूपाणि वस्तिकदिमुष्कमेषु वेदना मारुतनिग्रहः फलकोषशोफश्चेति। तत्रानिलपरिपूर्णा वस्तिभिवाततां परुषाम् अनिमित्तानिलरुजं वातद्धिमाचक्षते / 1 / पकोडम्बरसङ्काशां ज्वरदाहोष्मवती चाशुसमुत्थानपाकां पित्तद्धिम् / 2 / कठिनामल्पवेदनां शीतां काडूमती श्लेष्मद्धिम् / 3 / कृष्णस्कोटानां पित्तलिङ्गां रक्तद्धिम् / 4 / मृदुस्निग्यां कण्डमतीमल्पवेदनां तालफलप्रकाशां मेदोद्धिम् / 5 / मूत्रसन्धारणशीलस्य मूत्रद्धिर्भवति, गच्छत्तोऽस्य पूर्णा तिरिख क्षुभ्यति। मूत्रकृच्छवेदनां वृषणयोः श्वयथु कोषयोश्चापादयति, तां मूत्रद्धिं विद्यात् / 6 / भार. हरणवलवद्विग्रहवृक्षप्रपतनादिभिश्चायासविशेपैर्वायुरतिपटद्धः प्रकुपितश्च स्थूलाअस्येतरस्य चैकदेशं विगुणमादायाधो गला वङ्क्षणसन्धिमुपेत्य प्रन्धिरूपेण स्थिखाऽप्रतिक्रियमाणे च कालान्तरेण फलकोषं प्रविश्य मुकं शोकमाषादयति। आध्मातो वस्तिरिवाततः प्रदीर्घः शोको भवति। सशब्दमवपीड़ितश्चोद्ध मुपैति / विमुक्तश्च पुनराधमति / तामन्त्रद्धिप्रसाध्यामाचक्षते / इति। अत्र वङ्क्षणसन्धिस्था यदा तदासाध्येति शेयम् // 28 // गङ्गाधरः--यस्य वात इत्यादि / यस्य प्रकुपित। वातस्त्वङ्मांसान्तरमाश्रितः सन् शोथं जनयेत्, तस्य स कुक्षावुदरं जायते // 29 // चक्रपाणिः--गुल्मादयो विस्तरवक्तव्या अपि इहोत्सेधसामान्यात् लेशत पुच्यन्ते। शोध. संग्रह इति शोथत्वेनोत्सेभरूपेण संग्रहः शोथसंग्रहः // 26-31 / / For Private and Personal Use Only