________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 अध्यायः सूत्रस्थानम् / 737 यस्य पित्तं प्रकुपितं शङ्खयोरवतिष्ठते। श्वयथुः शङ्खको नाम दारुणस्तस्य जायते // 24 // यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते / ज्वरान्ते दुर्जयोऽन्ताय शोथस्तस्योपजायते // 25 // वातः प्लीहानमुद्धय कुपितो यस्य तिष्ठति / शनैः परितुदन् पाश्व प्लीहा तस्याभिवद्धते // 26 // यस्य वातः प्रकुपितो गुल्मस्थानेऽवतिष्ठते। शोथं सशूलं जनयन् गुल्मस्तस्योपजायते // 27 // नीलिका नाम च जायते। सुश्रुते क्षुद्ररोगाधिकार विशेषेणते रोगा उक्ताः। तदयथा-"कृष्णानि तिलमात्राणि नीरुजानि समानि च। वातपित्तकफोद्रेकात् तान् विद्यात् तिलकालकान्॥ नीरु सममुत्पन्नं मण्डलं कफरक्तनम्। सहज रक्तमीषच श्लक्ष्णं जमणिं विदुः॥ क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः। सहसा मुखमागम्य मण्डलं विसृजत्यतः / नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् / / " इति // 23 // गङ्गाधरः-यस्वेत्यादि। यस्य प्रकुपितं पित्तं द्वयोः शङ्खयोरवतिष्ठते, तस्य तयोः शङ्कदेशयोदारुणः श्वयधुः शङ्कका नाम जायते // 24 // गङ्गाधरः यस्य पित्तमित्यादि। यस्य प्रकुपितं पित्तं ज्वरितस्य कर्णमूलेऽवतिष्ठते तस्य ज्वरान्ते कर्णमूले ततः शोथो जायते / स दुर्जयोऽन्ताय भवति / / 25 // गङ्गाधरः वात इत्यादि। यस्य कुपिनो वातः प्लीहानमुद्धय तिष्ठति, तस्य वामं पाश्व शनैः परितुदन् प्लीहा नाड़ी अभिवर्द्धते // 26 // गङ्गाधरः-यस्येत्यादि। यस्य प्रकुपितो वातो गुल्मस्थाने गुल्मनिदानोक्त स्थानेऽवतिष्ठते, तस्य स वातः सशुलं शोथं गुल्माख्यं जनयन् जनयति / तस्य स गुल्म उपजायते // 27 // अटुला इति प्रसिद्धाः। दारुणोऽनुपक्रमादाशु मारकः। दुर्जयोऽन्तायेति दुर्जयो वा यथाक्रममुपक्रम्यमाणः, अन्तायेति मिथ्योपक्रमाद वेति मन्तव्यम् ; अयमेव शोथोऽन्यत्राप्युक्तः--"सन्नि पातज्वरस्यान्ते कर्णमूले सुदारुणः। शोथः सञ्चायते तेन कश्चिदेव प्रमुच्यते" इति // 21-25 // For Private and Personal Use Only