________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 736 चरक-संहिता। [ त्रिशोधीयः यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः / आशु संजनयेच्छोथं जायतेऽस्य गलग्रहः // 20 // यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति / शोथं सरागं जनयेद्विसर्पस्तस्य जायते // 25 // यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते। शोथं सरागं जनयेत् पिड़का तस्य जायते // 22 // यस्य पित्तं प्रकुपितं शोणितं प्राप्य शुष्यति / तिलकाः पिनवो व्यङ्गो नीलिका तस्य जायते // 23 // प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयटद्धियुक्तः। स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम् // कृच्छाच्छुसन्तं मृदुसव्र्वगात्रं संवत्सरातीतपरोचकात्तम् / क्षीणन्तु वैद्यो गलगण्डिनं तं भिन्नस्वरञ्चैव विवर्जयेत् तु // निबद्धः श्वयथ्यस्य मुष्कवल्लम्बते गले। महान् वा यदि वा हस्वस्तं गण्डमिति निदिशेत् // " इति गलगण्डाधिकारः // 19 // गङ्गाधरः-- यस्येत्यादि। यस्य प्रकुपितः श्लेष्मा स्थिरः सन्नन्तगेले तिष्ठति, तस्य तदन्तगेले स आशु शोथं संजनयेत्। स च शोथो गलग्रहो नाम जायते // 20 // ' गङ्गाधरः यस्य पित्तमित्यादि। यस्य प्रकुपितं पित्तं सरक्तं खचि सर्पति / तत् सरक्त पित्तं वचि सरागं शोथ जनयेत्। तस्य स तु शोथो विसो नाम जायते / विसपोऽयं विस्तरेण चिकित्सिते वक्ष्यते // 21 // गङ्गाधरः--यस्येत्यादि। यस्य प्रकुपितं पित्तं खचि स्थिते रक्तेऽवतिष्ठते / तत् पित्तं खस्थरक्तावस्थितं सरागं शोथं जनयेत्। स च शोथः पिड़का नाम जायते // 22 // गङ्गाधरः यस्य पित्तमित्यादि / यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति शोषयति, शोषणविशेषात् तस्य तिलकस्तिल इव प्रतिकृतिस्तिलकाल इति नाम जायते, पिप्लवो जतुमणि म च जायते / व्यङ्गो मुखदेशे न्यच्छो जायते। दोषा भवन्ति। विसर्पस्य पिड़कायाश्च तुल्यकारणत्वेऽपि विसर्पे सर्पणशीलो दोपः पिडकायाञ्च स्थिरो ज्ञेयः, अत एव पिड़कासंप्राप्तौ “अवतिष्ठते इत्युक्तम् // 17-20 // चक्रपाणिः–यस्य पित्तमित्यादौ पित्तं प्राप्य शोणितं कर्तृ शुष्यतीति योजनीयम् / पिप्लको For Private and Personal Use Only