________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 अध्यायः] सूत्रस्थानम् / 735 यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते / आशु संजनयेच्छोथं जायतेऽस्योपजिबिका // 17 // यस्य श्लेष्मा प्रकुपितः काकलेष्ववतिष्ठते। आशु संजनयेच्छोथं करोति गलशुण्डिकाम् // 8 // यस्य श्लेष्मा प्रकुपितो गलवाहोऽवतिष्ठते / शनैः संजनयेच्छोथं गलगण्डोऽस्य जायते // 16 // गङ्गाधरः -यस्येत्यादि। यस्येत्यादिना उपजिद्विकालक्षणम् / सुश्रुते वेनमधिजिहमाह / तद्यथा -"जिह्वाग्ररूपः श्वयथुः ककात तु जिह्वोपरिष्टादपि रक्तमिश्रात् / शेयोऽधिजिद्दुः खलु रोग एप विवर्जयेदागतपाकमेनम् / / " इति / तेनानाशु संजनयदित्यनेनाशुकारिरक्तसंसोऽत्र कफस्य शापितः // 17 // गङ्गाधरः यस्येत्यादि / अत्रापि आशुसंजनयेच्छोथमिति वचनन आशु. कारिरक्तसंसगः कफस्य मूचितः / ( इदं गलशुण्डीलक्षणम् / अत्र काकलं तालु. मूलम् / ) सुश्रते तु–“इले मासग्भ्यां तालुमूलात् प्रदो दीघः शोथो ध्मातवस्तिप्रकाशः। तृणाकासश्वासकृत् तं वदन्ति व्याधि वैद्या गलशुण्डीति नाम्ना॥” इति / “शोथः स्थूलस्ताददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु।" इत्यस्याप्यत्रावरोधः // 18 // गङ्गाधरः-यस्येत्यादि। पुनयस्येत्यादिना गलगण्डलक्षणम्। एषोऽत्र दोषभेदेन नोक्तः पदाधिकारात् / सुश्रुते हि स्वाधिकाराद्विस्तरेणोक्तः / तद्यथा “वातः कश्चापि गले प्रद्धो मन्ये तु संसृत्य तथैव मेदः / कुर्वन्ति गडं क्रमशः स्वलिङ्गः समन्वितं तं गलगण्डमाहुः // तोदान्वितः कृष्णसिराकनद्धः कृष्णोऽरुणो वा पवनात्मकस्तु। भेदोऽन्वितश्योपचितश्च कालात् भवेत् पदिग्धे च गलेऽरुनश्च // पारुप्ययुक्तश्विरद्धापाको यहच्छया पाकमियात् कदाचित्। वैरस्यमास्यस्य च तस्य जन्तोभेवेन तथा तालुगलप्रशोषः / / स्थिरः सवर्णोऽल्परुगुग्रकण्डूः शोथो महांश्चापि कफात्मकस्तु / चिराभिद्धिं कुरुते. ऽचिराद्वा प्रपच्यते मन्दरुजं कदाचित् ॥माधुय्यमास्यस्य च तस्य जन्तोभवेत् तथा तालुगलप्रलेपः। स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदःकृतो नीरुगथातिकण्डः // चक्रपाणिः-सम्प्रत्युत्सेधसामान्यात् प्रादेशिकान् शोथानाह-यस्येत्यादि। काकलं तालुमूलम् / शनैरितिवचनेन गलगण्डकारिणो दोषाश्चिरक्रिया भवान्त। गलग्रहादी चाशुकारिणो For Private and Personal Use Only