________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशोथीयः 734 चरक-संहिता। निदानाकृतिसंसर्गाच्छ्यथुः स्याद द्विदोषजः / साकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः // 13 // यस्तु पादाभिनिवृत्तः शोथो गुर्खङ्गगो * भवेत् / जन्तोः स च सुकष्टः स्यात् प्रसूतः स्त्रीमुखाच्च यः // 14 // यश्चापि गुह्यप्रभवः स्त्रिया वा पुरुषस्य वा। स च कष्टतमो शं यो यस्य च स्युरुपद्रवाः // 15 // छर्दिः श्वासोऽसचिस्तृषणा रोऽतीसार एव च / सप्तकोऽयं सदौर्बल्यः शोथोपद्रवसंग्रहः // 16 // गङ्गाधरः--निदानेत्यादिना द्वन्द्वजानां शोधानाम् / सकृितिरित्यादिना सान्निपातिकस्य / / 13 / / गङ्गाधरः -एपामसाध्यवादिज्ञानार्थमाह-यस्त्वित्यादि। पादाभिनित्त इति पादमभि लक्षवीकृत्यादी जातः / गुब्बैङ्गगः सर्वाङ्गगः इत्यर्थः / पादादिक्रमे. णादावोदेहे जातमात्रं लघुदेहे जातवेऽपि शोथो न प्रतिकत्तुं शक्यते / स यदा गुरुमूर्द्ध देहं गच्छति तदा जेतु न शक्यतेऽसाध्य इत्यर्थः-सुकष्ट इति पदेन ख्यापितः। प्रमूतः स्त्रीमुखाच्च य इति स्त्रिया विशेषेणोक्तखादेप पुंसो जन्तोरसाध्यशोथोपदेशः। स्त्रिया मुखमादावारभ्य यो गुङ्गगो भवेत् स स्त्रियाः मुकष्टोऽसाध्य इत्यर्थः। उक्तं हि-"अधोभागो गुरुः स्त्रीणामृद्ध पुंसां गुरुस्तथा।" इति // 14 // - गङ्गाधरः---वीसयोरुभयोरसाध्यशोथलक्षणमाह यश्चेत्यादि / गुह्यप्रभवः गुह्यात् प्रमूत इत्यर्थः / अत्रापि कटतमपदेनासाध्य उच्यने / उपद्रपयुक्तत्वेऽप्युभयस्य शोथस्थासाध्यवम् / / 15 / / गङ्गाधरः-उक्तानुपद्रवानाह-छदिरित्यादि। अथोत्सेधसामान्यादैकदेशिकानां शोथानां सम्माप्तिवचनेन स्वरूपमाह। दोष भेदे लक्षणश्चात्र भिन्नाधिकाराद्विस्तरेण न वक्ष्यते यथावदोष लिङ्गैतिव्यवादिनि // 16 // चक्रपाणिः- पादाभिनिवृत्तः पुरुपाणां लघावधोदेशे जातः सन् यदा न जीयते, तदा गुरुमूद देशं गतः स च न पायंते जेतुम्, यो हि लधौ प्रदेशे जेनु न पायंते गुरुप्रदेशगतो नितरामेव न पाय॑ते ; एवम्, प्रसृतः स्त्रीमुखाच्च य इत्यपि ज्ञेयम्, वचनं हि-'अधोभागो गुरुः स्त्रीणामूद्ध : पुसा गुरुस्तथा इति। उत्तानुपद्रवानाह-छदिरित्यादि / / 14-16 // * सर्वाङ्गगः इति चक्रः For Private and Personal Use Only