________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 अध्यायः सूत्रस्थानम् / 733 भवन्ति चात्र। दूयन्ते* यस्य गात्राणि स्वपन्तीब रुजन्ति च / पीड़ितान्युन्नमन्याश वातशोथं तमादिशेत् // यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति / स्नेहोष्णमईनाभ्याश्च प्रणश्येत् स च वातिकः // 10 // यः पिपासावरातस्य यतेऽथ विदह्यते। स्विद्यते किया गन्धी स पत्तः श्वयथुः स्मृतः // यः पीतमुखनेत्रत्वक पूर्व मध्यात् प्रसूयते। तनुत्वक चातिसारो च पित्तशोथः स उच्यते // 1. // यः शीतलः सक्तगतिः कण्डूमान् पाण्डुरेव च / यः पीड़ितो नोन्नमति श्वयथः स कफात्मकः // यस्य शस्त्रकुशच्छेदान्छोणितं न प्रवर्त्तते / कृच्छ्रेण पिच्छां स्त्रवति स चापि कफसम्भवः // 12 // गङ्गाधरः---एषां लिङ्गान्युक्त्वापि पुनः प्रायोभावीणि लिङ्गान्याह-भवन्ती. त्यादि / यन्ते इत्यादिना वातशोथस्य लिङ्गानि / स्वपन्तोवेति निवेदनानि / रुजन्ति व्यथन्ते। तेन कदाचिद्वायोनिश्चलखान्न व्यथन्ते, चलखात् तु कदाचिद्वप्रथन्ते गात्राणि शोथप्रदेशे न खन्यत्र / एवं शोथप्रदेशे गात्राणि पीड़ितान्याशून्नमन्ति। नक्तं प्रणश्यतीति प्रशाम्यति // 10 // गङ्गाधरः-यः पिपासेत्यादिना पित्तशोथस्य / दूयते इतीह विदाहादिना / वातिके तु वेदनादिना दूयन्त इति बोध्यम् / गन्धीति पाकान् क्लेदेन पृयगन्धवान् भवति। मध्यादिति पूर्व मध्यशरीरमारभ्य प्रमूयते पित्तेन दोषे. ति शेषः। मध्यदेशप्रसवेन पित्तानुमाना / / 11 // गङ्गाधरः----यः शीतल इत्यादिना कफशोथस्य // 12 // चकपाणिः-झूयन्त इत्यादि पुनः श्लोकेन पुनर्लक्षणाभिधानं प्रायो भाविलक्षणदर्शनार्थम् / स्वपन्तीवेति निर्वेदनः, एनेन, वायोश्चलवेन क्षणाञ्च रुक, क्षणाञ्च तदभाव इति ज्ञेयम् / मध्यादिति शरीरमध्यात्। सक्तगतिरविसारी, छिन्नादिति रछेदात् // 10-13 // * अयन्ते इति वा पाठः। For Private and Personal Use Only