________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 732 चरक-संहिता। / त्रिशोथीय: . गुरुमधुरशीतस्निग्धोपयोगैरतिस्वाताव्यायामादिभिश्च श्लेष्मा प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोथं जनयति / स कृच्छोत्थानप्रशमो भवति। पाण्डुश्वेतावभासो गुरुः स्निग्धः श्लक्ष्णः स्थिरः स्त्यानः शुक्लायरोमा स्पोष्णसहश्चेति श्लेष्मशोथः // 8 // यथास्वकारणाकृतिसंसर्गाद द्विदोषजास्त्रयः शोथा भवन्ति / यथास्वकारणाकृतिसन्निपातात् सान्निपातिक एक एवं सप्तविधी भेदः / प्रकृतिभिस्ताभिर्भिद्यमानो द्विविधस्त्रिविधश्चतुविधः सप्तविधोऽष्टविधः शोथ उपलभ्यते। स पुनश्चैक एवोत्सेधसामान्यात् // 6 // गङ्गाधरः-काशोथस्य सहेतुलिङ्गमाह---गुचित्यादि। कृच्छोत्थानप्रशम इति चिरेणास्योत्पत्तिः प्रशमश्च स्यात् // 8 // __गङ्गाधरः--शोथस्य वातादिजखेन त्रिविधवेऽपि संसर्गतोऽपि भेदं दर्शयतियथास्वेत्यादि। स्पष्टम्। ननु तहि त्रिविधखाद्यनियमो भवतीत्युक्तसंख्याधिक्य. मपि भवतीति ? अत आह--प्रकृतिभिरित्यादि / प्रकृतिभिरित्युपादानकारणस्ताभिस्ताभिरिति दोषागन्तुरूपाभिः पृथगदोषरूपाभिः संसृष्टदोषरूपाभिः सन्निपतितदोषरूपाभिः, द्विविध इति मागेव स्वनिदानकुपितदोषहेतुकलेन प्रागेव दोषसम्बन्धाभावेन च्छेदनादिहेतुकलेन भेदाद द्विविधः शोथः / पुनः स एव द्विविधः शोथ उत्तरकालं यथास्वदोषानुवन्धेन प्रागेव च दोषसम्बन्धेन त्रिदोषाविना. भाषात् वातजखादिभेदेन त्रिविधः। स एव त्रिविधः शोथः पृथगदोषसंसृष्टदोषभेदेन चतुर्विधः। संसर्गो हि द्वाम्यां त्रिभिश्च भवति। स च पुनः पृथग् दोषद्वन्द्वदोषसन्निपतितदोषजवभेदेन सप्तविधश्च भवति। दोषाणां पृथगद्वन्द्वसन्निपतितत्वे तु मानविकल्पेन द्विषष्टिविधखान्तर्भाव इति बोध्यम् / उत्सेधसामान्यादिति उच्छितवसामान्यात् / / 9 // अप्युष्णत्वेनोपलभ्यते, स्विद्यति स्वेदनवान् स्यात् / न सुषूयते न सहते, स्पर्शन न सहते, उष्णञ्च न सहते। स कृच्छ्रोत्थानप्रशम इति चिरोत्थानप्रशमः, प्रकृतिभिरिति कारणैः, उल्सेधः उन्नतस्वम् // 6-1 // For Private and Personal Use Only