________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 अध्यायः सूत्रस्थानम् / 731 अयन्त्वत्र विशेषः। शीतरुक्षलघुविशदधूमोपवासातिकर्षणक्षपणादिभिर्वायुः कुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोथं जनयति। स क्षिप्रोत्थानप्रशमो भवति, तथा श्यावारुणवर्णः प्रकृतिवर्णो वा। चलनः स्पन्दनः खरपरुषभिन्नत्वगोमा / छिद्यत इव भिद्यत इव सूचीभिरिव तुद्यते। पिपीलिकाभिरिव संसृप्यते। सर्वपकल्कावलिप्त इव चिमिचिमायते सङ्कच्यते आयम्यत इति वातशोथः // 6 // उष्णतीक्षणकटनारलवणाम्लाजीर्णभोजनैरग्न्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङमांसशोणितादीन्यभिभूय शोथं जनयति / स विप्रोत्थानप्रशमो भवति / कृष्णनीलपीतताम्रावभास उष्णो मृदुः कपिलताम्रलोमा / स उच्यते दूयते धूप्यते उष्मायते विद्यते क्लिद्यते। न च स्पर्शमुष्णं सुषयते इति पित्तशोथः // 7 // गङ्गाधरः-वातादिविशेषहेतुमाह-अयमित्यादि / शीतेत्यादि / शीतादीनि द्रव्याण। धूमः। उपवासातिकर्षणम् / क्षपणं वमनादिभिर्दोषक्षपणम् / आदिना व्यायामादीनां ग्रहणम् / तस्य रूपमाह–स इत्यादि। प्रकृतिवर्णी गात्रसवणः / चलनः वृद्धिहासाभ्यां संक्रमणः / स्पन्दनः स्फुरणः। सङ्कच्यते इत्याकुश्चनवान् / आयम्यते इत्यायतो भवति // 6 // गङ्गाधरः--पित्तशोथस्य सहेतुलिङ्गमाह -उष्णेत्यादि। कपिलेति पिङ्गलवर्णः। उष्यत इति पाश्वस्थवहिनव दह्यते / दूयते तप्यते। धृप्यते धूममिवोद्वमति / उष्मायते वहिरुप्णो भवत्यन्यैरप्युष्णतयोपलभ्यते। खिग्रते धम्मेवान् भवति / क्लियते पाकात संक्लेदो भवति। न चोष्णं स्पर्श मुध्यते न सहते // 7 // चक्रपाणि:-क्षपणं वमनादिभिः ; प्रकृतिवर्णो देहसमानवर्णः, चलः संक्रमवान, स्पन्दनः कम्पनः। उष्यते पावस्थेनेव वहिना दह्यते, धूप्यते धूममिबोद्वमति, उष्णायते पहिः परैः * श्रम इति चक्रः। + पीड्यते इवेत्यधिक पाठश्चक्रपाणितः। For Private and Personal Use Only