________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
[त्रिशोथीयः निजाः पुनः स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसज्जनाद्वा च्छर्दालसकविसूचिका-श्वास-कासातीसारशोष-पाण्डुरोगोदर-*-प्रदरभगन्दराशों विकारातिकर्षणाद्वा कुष्ठकण्ड्रपिड़कादिभिर्वा च्छर्दिक्षवथूगार-शुक्र-वात-मूत्र-पुरीषवेगविधारणैर्वा कर्मरोगोपवासातिकर्षितस्य वा सहसातिगुज़म्ललवणपिष्टान्नफलशाकरागदधिहरितक-मद्य-मन्दकविरूढ़नवशूकशमीधान्यानूपौदकपिशितोपयोगात् मृत्पङ्कलोष्ट्रभक्षणाल्लवणातिभक्षणाद्दर्भसंपीड़नादामगर्भप्रपतनात् प्रजातानाञ्च मिथ्योपचारादुदीर्णदोषत्वाच्च शोथाः प्रादुर्भवन्तीत्युक्तः सामान्यो हेतुः ॥ ५॥
गङ्गाधरः-निजशोथानां हेतुलिङ्गक्रियासूत्राण्याह-निजाः पुनरित्यादि । अयथावदित्ययोगात्। मिथ्यासंसर्जनादिति स्वेदादीनां यस्य यत् पथ्यमुक्तं तद्विपरीतपथ्याहारात् । छ दिरोगातिकर्षणं शोथहेतुर्भवति। आदिनाऽपथ्यादेओ हणम् । छप्रिभृतीनां वेगविधारणानि शोथहेतवः। कर्मेति पञ्चकर्मणां रोगाणामुपवासस्य चातियोगैः कणञ्च शोथहेतुः। अत्रानुक्तरोगातिकर्षणोपसंहारार्थं पुनर्वचनम् । सहसा तु अतिगुज़म्लादिभक्षणं शोथ. हेतुः। अत्र रागो रागषाइवः । मन्दक मन्दजातम् । विरूदमङ्क रितम । नवं नूतनश्च शूकधान्यम् तथा शमीधान्यञ्च । मृदादर्भक्षणं शोथहेतुः । प्रजातानाश्च मिथ्योपचारादिति नवप्रसूतानां पथ्यविपरीतसेवनात् । उदीणदोषत्वाद्वातादीनां स्वकारणकुपितखात् किंवा स्वस्वकारणं विनतेभ्यः कारणेभ्य उदीर्णखात् तेन । एते हेतवो दोषं कोपयन्तः शोथं जनयन्तीति दोषव्याध्युभयस्यैव हेतुत्वमेषामिति बोध्यम् ॥५॥
चक्रपाणिः-छादयः पुराणा एव शोथहेतयः । कर्माद्यतिकर्षितस्य तु सहसाति गुप्यादिसेवनं शोथहेतुः । कर्मेति पञ्चकर्म । विरून शब्दो कशमीधान्यविशेषणवाचको, प्रजातानामित्यचिरप्रसूतानाम् ॥ ५॥
* पाण्डुरोगज्वरोदर इति चक्रपाणिस्वीकृतः पाठः ।
For Private and Personal Use Only