________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टादशोऽध्यायः ।
अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १
त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः । ते पुनद्विविधा निजागन्तुभेदेन । तत्रागन्तवश्छेदन भेदनक्षणनभञ्जन पिच्छ नोत्पेषणवेष्टनप्रहारबधबन्धनव्यधनपीड़नादिभिर्वा
गङ्गाधरः - अथ शिरोरोगहृद्रोगयोः सप्रभेदयोरुक्तले दोषमानविकल्पजविकाराणां विशिष्टव्याधिषु ज्वरादिषु हेतूनां क्षयाणां गतीनाञ्च विस्तरवचनेऽपि च विशिष्टव्याधिविशेषाणामुत्सेधलक्षणानां पिड़कानां मध्ये या अन्याः सामान्यत उक्तास्तासां विस्तरेण वक्त त्रिशोथीयमध्यायमारभतेarra इत्यादि । अध्यायादौ त्रयः शोथा इति वाक्यस्यार्थं त्रिशोथमधिकृत्य कृतोऽध्याय इति त्रिशोथीयस्तं तथा सव्वं पूर्व्वाध्यायवव्याख्येयम् ॥ १ ॥
गङ्गाधरः- यद्यप्यत ऊर्द्ध विधिभेदो वक्ष्यते तथाप्यादौ चिकित्सार्थ प्राधान्याच्च प्रतिवातादिजखेन त्रिविधानाह - त्रय इत्यादि । ननु वातपित्तश्लेष्मनिमित्तास्तु खलु निजा एव तिस्रं षणीये हुत्रक्तम् । तत्र निजः शरीरदोषसमुत्थः । आगन्तुः भूतविषादुत्रत्थः । कथमत्र ते वातपित्तकफनिमित्तास्त्रयः शोथाः पुनर्द्विधा भवन्ति निजागन्तुकभेदेनेति चेत् ? न । शोथा वातादिजखेन यदा ज्ञातव्यास्तदा त्रय एव, अन्यथा तु निजागन्तुभेदेनेति ।
-
ननु वातादिजा एव शोथाः पुनद्विविधाः ते इति पदेन सामान्यतः शोथा इत्यस्मादनुवृत्तेद्विधा प्रतिलोमतत्रयुक्त्यादावागन्तुशोथस्य निदानलिङ्गचिकित्सासूत्राण्याह – तत्रागन्तवश्छेदनेत्यादि । छेदनं द्विधाकरणम् । भेदनमाशयावदारणम् | क्षणनं चूर्णनम् । भञ्जनं जर्जरीकरणम् । पिच्छनमत्यर्थंपीड़नम् ।
For Private and Personal Use Only
चक्रपाणिः - पूर्वाध्याये पिड़का उक्ताः, ताश्च शोधरूपाः, तेन शोधाधिकारात् त्रिशोथीयोऽभिश्रीयते । वक्ष्यमाणद्विविधादिभेदे विद्यमानेऽपि वातादिकृतत्रित्वाभिधानमग्रे वातादिकृतस्यैव प्राधान्यख्यापनार्थम् । भेदनमाशयविदारणं, क्षणनमस्थिचूर्णनम्, भञ्जनं जर्जरीकरणं, पिच्छन