________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२६ ___ चरक-संहिता। (कियन्तःशिरसीयः
सर्वा हि चेष्टा वातेन स प्राणः प्राणिनां स्मृतः। तेनैव रोगा जायन्ते तेन चैवोपरुध्यते ॥ ६४ ॥ नित्यं सन्निहितामित्र परीक्ष्यात्मानमात्मवान् । नित्यं युक्तः परिचरेदिच्छन्नायुरनित्वरम् ॥६५॥
तत्र श्लोको। शिरोरोगाः सहृद्रोगा रोगा मानविकल्पजाः। क्षयाश्च पिड़काश्चोक्ता दोषाणां गतिरेव च ॥
मालिन्यकारः मन्दानादिविकारहेतुरुच्यते। नन्वोजःकर्म बलं कथं प्राकृतश्लेष्मा कुरुते इति ? अत आह-स चेति । बलकृदेव यः प्राकृतः श्लेष्मा स एव काये ओजः ख्यातमिति। वक्ष्यते च शारीरे-“तावदेव श्लेष्मणश्चौजसः प्रमाणम् ।" इति । सुश्रुतेऽप्युक्तं “सौम्यमोजः सर्वधातूनां तेजः।” इत्युपचारात् स वैकृतः श्लेष्मा पाप्मा रोगः ॥६३ ॥
गङ्गाधरः-सा हीत्यादि । वातेनेति प्रकरणात् प्राकृतेन । सर्वा चेष्टा इति प्राकृतक्रिया गमनादयः। तेनेति वैकृतेन उपरुध्यते मार्यते हन्यते इत्यर्थः ॥ ६४॥ ___ गङ्गाधरः- नन्वेवं तदा किं कर्त्तव्यमिति ? अत आह-नित्यमित्यादि । सन्निहितामित्रं स्वशरीरस्थत्वेनातिनिकटस्थान्यमित्राणि शत्रवो वैकृतपित्तादयो यस्य तं तथाभूतमात्मानमात्मवान प्रशस्तमनाः परीक्ष्य युक्त आत्महितावहितचेताः सन् नित्यगमनशीलमायुनिखरमगमनशीलतया नित्यमिच्छन् परिचरेदिति ॥६५॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्रेत्यादि । शिरोरोगा इत्यादिश्लोकद्वयं स्पष्टम् ॥६६॥
जसश्च प्रमाणम्" इति ; दुःखहेतुत्वात् पाप्मा। सर्वा हि चेष्टा इत्यविकृतगमनायाः, उपरुध्यने नियते ॥६१-६४॥
For Private and Personal Use Only