________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७ अध्यायः ]
सूत्रस्थानम् । पित्तादेवीष्मणः पक्तिर्नराणामुपजायते। पित्तञ्चैव प्रकुपितं विकारान् कुरुते बहून् ॥ ६ ॥ प्राकृतस्तु बलं श्लेष्मा वैकृतो मल उच्यते । स चैवौजः.स्मृतं काये स च पाप्मोपदिश्यते ॥६३॥
भवति । एवं प्रापि च ग्रीष्मसञ्चितो वायुः कालस्वभावात् भूवाष्पादितः प्रकोपमापन्नः प्रबलस्तत्र च पित्तमपि शान्तिमापद्यमानं भूवाष्पमेघनिष्यन्दनादिभ्यः कालस्वभावान्निःशेषेण न प्रशाम्यति, सशेषमापन्नमनुवन्धरूपेण कुप्यति । कफश्च तत्र चयमापद्यमानः कालस्वभावात् भूवाष्पादितो मध्यमं कुप्यति इति। कालकृतापि निदानविशेषकृता कालकृतैव गतिबोध्या।। __अस्यास्तु चयाद्यनेकगतेविधिभेदमाह-चयाद्या पुनरित्यादि। उक्तरूपा चयाद्या तु पित्तादीनां गतिः प्राकृती वैकृती चेति द्विधोच्यते । पित्तस्य वर्षादिषु त्रिषु चयाद्या गतिः प्राकृती वसन्तादिषु त्रिषु वैकृती। कफस्य हेमन्तादिषु त्रिषु चयाद्या गतिः प्राकृती, प्राडादिषु त्रिषु वैकृती। वायोः पुनीष्मादिषु त्रिषु चयाद्या गतिः प्राकृती शरदादिषु त्रिषु वैकृतीति । उक्तञ्च-“वर्षाशरद्वसन्तेषु वातादैनः प्राकृतः क्रमात् । वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोद्भवः॥” इति। तथेत्यादि। तथा पित्तादीनां चयाद्या प्राकृती वैकृती द्विधा गतिष्टा । प्राकृती स्वास्थावस्था वैकृतीखातुर्यावस्था इति । द्विधा पित्तादीनां गतिरित्यर्थः । तदद्वयमुदाहरति-आहारेत्यादि। अत्रापि पित्तस्यादावुपादानमग्न शरीररक्षणहेतुत्वेन तदात्मकखात् । पक्तिः पाको भुक्तानामिति शेषः। पित्तं पाचकाख्यमपि रूपं वातः समानाख्यः पक्तपुरुषवत् । कफः क्लोदकाख्यो जलवत् एभिस्त्रिभिः पाकः सम्पद्यते यथा लोके पुरुषाग्निजलैस्त्रिभिरिति । पित्तवातकफानां स्वास्थ्यावस्थारूपा प्राकृती वैकृती गतिर्दाहादिभिः । पित्तञ्चैवेत्यादि बहूनिति ओषचोषादीन् ॥ ६११६२ ।।
गङ्गाधरः-कफस्योदाहरणमाह-प्राकृतस्त्वित्यादि । प्राकृतः प्रकृतिगति. माश्रितः। बलमोजोरूपस्य श्लेष्मणः कर्म बलमिति बलहेतुः। मल इति
कर्तृत्वेन, पक्तिः पाकः, बलमिति बलहेतुत्वेन, मल इति शरीरमलिनीकरणात्, भोज इति सारभूतं, यदि वा द्वितीयश्लौष्मिकोजोहेतुत्वेनौजः, वक्ष्यति हि शारीरे-“तावच्चैव श्लैष्मिकी
For Private and Personal Use Only