________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
ता बुद्धा मारुतादीनां यथास्वं हेतुलक्षणैः । ब्रूयादुपाचरेदाशु प्रागुपद्रवदर्शनात् ॥ ५७ ॥
७२०
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ कियन्तः शिरसीयः
कक्षावंक्षणसन्धिषु । रक्तां विदारिकां विद्यात् सव्र्व्वजां सव्वलक्षणाम् ॥ प्राप्य मांससिरास्नायः श्लेष्मा मेदस्तथानिलः । ग्रन्थिं कुर्व्वन्ति भिन्नाऽसौ मधुसर्विसनिभम् । सवत्यासावमत्यर्थं तत्र वृद्धिं गतोऽनिलः । मांसं विशोष्य ग्रथितां शर्करां जनयेत् पुनः । दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः । सुवन्ति सहसा रक्तं तं विद्याच्छर्करार्बुदम् || पामाविचच्च्यो कुष्ठेषु रकसा च प्रकीर्त्तिता । शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः ॥ मेदोरक्तानुगैश्वव दोषैर्वा जायते नृणाम् । सकीलः कठिनो ग्रन्थिनिम्नमध्योन्नतोऽपि वा । कोलमात्रः सरुक् स्रावी जायते कदरस्तु सः । अरूषि बहुवक्त्राणि बहुक्के दीनि मर्द्धनि ॥ कफासृक्रिमिकोपेण नृणां विद्यादरुषिकाम् । दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः । गात्रेषु वदने चान्तर्विज्ञेयास्ता मसूरिकाः । शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः । जायन्ते पिड़का यूनां वक्त या मुखदूषिकाः ॥ कष्टकैराचितं वृत्तं कण्डूमत् पाण्डु मण्डलम् || पद्मिनीकण्टकप्रखैस्तदाख्यं कफवातजम् ।। अवेदनं स्थिरञ्चैव यस्य गात्रेषु दृश्यते । माषवत् कृष्णमुत्सन्नमनिलान् मशकं विदुः ॥ व्यानो गृहीला श्लेष्माणं करोत्यर्शस्त्वचो वहिः । कीलोपमं स्थिरकरं चम्मेकीलन्तु तद्विदुः । वातेन तोदपारुष्यं पित्तादसितवक्तृता । श्लेष्मणा स्तिमितं तस्य ग्रथितलं सवर्णता || शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् । स्विन्नस्यास्त्राप्यमानस्य कण्डू रक्तकफोद्भवा । कण्डूयनात् ततः क्षिप्रं स्फोटः स्रावश्च जायते । एकीभूतां वणैर्घोरां तां विद्यादहिपूतनाम् ॥ स्नानोत्सादनहीनस्य मलो पणसंश्रितः । प्रक्लिद्यते यदा स्वेदात् सकण्डू जनयेत् तदा || तत्र कण्डूयनात् क्षिप्रं स्फोटः स्रावश्थ जायते । प्राहु षणकच्छु तां श्लेष्मरक्तप्रकोपजाम् ॥” इति ।
सर्व्वमुपसंहर्त्तुमाह-- ता इत्यादि । उपाचरेच्चेति मारुतादीनां भेषजैरिति । मागुपद्रवदर्शनादिति पिड़कायामुपद्रवोत्पत्तेः पूर्वमेवोपाचरेदित्यर्थः । उपद्रवसहिता हि पिडकाः साध्या अपि कृच्छ्रा भवन्ति इति ज्ञापितमिति ॥ ५७ ॥ उपाचरेति मारुतादीनां भेषजैरित्यर्थाद्भवति प्रागुपद्रवदर्शनादित्यनेन उपद्रवयुक्ता पिकाऽसाध्येति दर्शयति ॥ ५७ ॥