________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः ]
सूत्रस्थानम् ।
मृद्वाश्च कठिनाश्चान्याः स्थूलाः सूक्ष्मास्तथापराः । मन्दवेगा महावेगाः स्वल्पशूला महारुजाः ॥
For Private and Personal Use Only
७१६
सप्तति विरोध इति ? अत आह— तथान्या इत्यादि । सप्त पिड़का आविष्कृततमतयोक्ताः अन्याश्च पिडकाः सन्ति । ताः कीदृश्य इति ? अत आह—पीतेत्यादि । अत एव सुश्रुतोक्ता “महत्यल्पचिता शेया पिड़का सा तु पुत्रिणी । मसूरसमसंस्थाना या सा तु मसूरिका । विदारीकन्दवदवृत्ता कठिना च विदारिका ।।” इति तिस्रोऽन्तर्भाव्याः । पाण्डुरा धूसराः । पाण्डुवर्णाः रुक्षपाण्डुवर्णाः । भस्माभाः श्यावाऽनुश्वेतवर्णाः । मेचकप्रभाः स्त्रिग्धकृष्णवर्णाः । सुश्र तेऽप्युक्तं नामविशेषेण -- “ स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्द्रसन्निभा । कफवातोत्थिता शेया बालानामजगल्लिका ॥ यवाकारा सुकठिना ग्रथिता मांससंश्रिता । पिड़का श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ।। घनामवक्तां पिड़कामुन्नतां परिमण्डलाम् । अत्राजीमल्पपूयां तां विद्यात् कफवातजाम् ॥ विवृतास्यां महादाहां पकोडुम्बरसन्निभाम् । विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ॥ ग्रन्थयः पञ्च वा पडू वा दारुणाः कच्छपोन्नताः । कफानिलाभ्यामुद्भूतां विद्यात् तां कच्छपीमिति ॥ पाणिपादतले सन्धौ ग्रीवायामृद्ध जत्रणि । ग्रन्थिल्मीकवद्यस्तु शनैः समुपचीयते ।। तोदक्लं दपरीदाह- कण्डूमद्भित्र घृतः । व्याधिdeute इत्येष कफपित्तानिलोद्भवः । पद्मपुष्करवन्मध्ये पिडकाभिः समाचिताम् । इन्द्रवृद्धान्तु तां विद्याद् वातपित्तोत्थितां भिषक् ॥ कर्णौ पर समन्ताद्वा पृष्ठे वा पिड़कोग्ररुक् । शालकवत् पनसिकां तां विद्यात् श्लेष्मवातजाम् || ( हनुसन्धौ समुद्धतं शोफमल्परुजं स्थिरम् । पाषाणगर्द भं विद्याद्वलाशपवनात्मकम् ||) विसर्पवत् सर्पति यो दाहज्वरक रस्तनुः । अपाकः श्वयथुः पित्तात् स शेयो जालगर्दभः । बाहुपाश्वासकक्षासु कृष्णस्फोटां सवेदनाम् । पित्तप्रकोपात् सम्भूतां कक्षामिति विनिर्दिशेत् ॥ अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्ततः । कचित् सर्व्वत्र वा देहे स्मृता विस्फोटका इति । कक्षाभागेषु ये स्फोटा जायन्ते मांसदारणाः । अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः । सप्ताहाद द्वादशाहाद्वा पक्षाद्वा घ्नन्ति मानवम् । तामनिरोहिणीं विद्यादसाध्यां सन्निपाततः || विदारीकन्दवदत्तां
इत्यादि । - पाण्डुरा धूसरा, पाण्डुवर्णास्तु रुक्षपाण्डुवर्णा ज्ञेयाः, मेचकप्रभाः स्निग्धकृष्णवर्णाः ।