________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ कियन्ताशिरसीयः
७१८
चरक-संहिता। [कियन्तःशिरसीयः शराविका कच्छपिका जालिनी चेति दुःसहा । जायन्ते ता ह्यतिबलाः प्रभूतश्लेष्ममेदसः ॥ ५४॥ सर्षपी त्वलजी चैव विनता विद्रधी च याः। साध्याः पित्तोल्वणास्तास्तु संभवन्त्यल्पमेदसः ॥ ५५ ॥ मर्मस्वंसे गुदे पाष्र्योस्तले सन्धिषु पादयोः । जायन्ते यस्य पिड़काः स प्रमेही न जीवति ॥ ५६ ॥ तथान्याः पिड़काः सन्ति पीतरक्तासितारुणाः।
पाण्डुराः पाण्डुवर्णाश्च भस्माभा मेचकप्रभाः॥ प्रमेह विनापि दुष्टमेदस एता जायन्त। याः पिड़का भवन्ति तासामेव माधुमेहिकपिड़कावल्लिङ्गसाध्यासाध्यवादिकं बोध्यम् । वास्तुपरिग्रहः स्थानस्य परि सर्वतो ग्रहणमित्यर्थः ॥ ५३॥ ___ गङ्गाधरः-आसां दोपदृष्यनियममाह-शराबिकेत्यादि। दुःसहाः कष्टदखात्। प्रभूतश्लेष्ममेदस इत्यनेन (विना प्रमेहं प्रमूतश्लष्ममेदसः) कफमेहिनामेव गुरुस्निग्धादिसेवनेन मधुमेहत्वे शराविकादिकास्तिसो भवन्ति ॥५४॥
गङ्गाधरः-नन्वन्यमेहिनां सर्पपीत्यादिकाश्चतस्रः पितोल्वणा अल्पमेदसो भवन्तीत्यनेन पित्तमेहिनां गुरुस्निग्धादिसेवनेन मधुमेहले एव भवन्ति सर्षप्यादयश्चतस्रो न तुल्यमेहिनामिति । अत्र विद्रधी वाह्या न खाभ्यन्तरा, तस्य दोषादिविशेषोक्तखात्। आभ्यन्तरा हि विद्रधी यस्य यन्मयप्रमेहस्तस्य तन्मयी भवति, यद्यपि मधुमेहले त्रैदोषिकलं तथापि पूव्वप्रमेहदोषाधिक्येन मधुमेहत्वेऽपि तद्वापदेशात् । पूर्वप्रमेहकददोषस्याप्राधान्येनोल्वणत्रिदोषजवेन मधुमेहले त्रिदोषजा 'वद्रधी भवति । सुतरां सुश्रुतेनोक्तम्-“ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मयाः।” इति ॥५५॥ . गङ्गाधरः-प्रमेहमात्रे पिड़काया असाध्यखमाह- मर्म स्वित्यादि। बहुवचनात् सप्तोत्तरे मम्मे शते। तले हस्ततले ॥५६॥
गङ्गाधरः-ननु सुश्रुते दश पिड़काः प्रमेहिणामप्रमेहिणाश्चोक्ताः। अत्र तु माधुमेहिकत्वं यत् पूर्वमुक्त तत् प्रायिकत्वेन ज्ञयम्। वास्तु स्थानं, विद्रधी चेति वायविद्रधी ।। ५३-५६ ॥
चक्रपाणिः-पिड़काप्रसङ्गेनान्यासामपि पिड़कानामाविष्कृतानां लक्षणं व्रते-तथाऽन्या
For Private and Personal Use Only