________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्याय:
सूत्रस्थानम्।
७१७ भवन्ति चात्र। विना प्रमेहमप्येता जायन्ते दुष्टमेदसः ।
तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः ॥ ५३॥ समुन्नद्धमन्तः कुर्वन्ति विद्रधिम्॥ गुदे वस्तिमुखे नाभ्यां कुक्षौ वझणयोस्तथा । बुक्कयोः प्लीहि यकृति हृदये क्लोन्नि वा तथा ॥ तासां लिङ्गानि जानीयाद्वाह्य विद्रधिलक्षणैः ॥” इत्यादि। गुदजायास्तु तत्रैव लक्षणमुक्तं-"गुदे वातनिरोधश्च” इतिमात्रम् । एवम्-“स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः । दाहज्वरकरो घोरो जायते रक्तविद्रधिः ॥ अपि सम्यक् प्रजातानाममृक् कायात् अनिःस्न तम् । रक्तजं विद्रधिं विद्यात् कुक्षौ मकल्लसंज्ञितम्। सप्ताहान्नोपशान्तश्चेत् तलोऽसौ संप्रपच्यते ॥” इति । रक्तविद्रधी च वातादिविद्रधिवदुक्ता। तथा वाह्यविद्रधी च वातपित्तकफसन्निपातजक्षतजरक्तजभेदात् षोढ़ा उक्ता। तत्र वातादिजानामभ्यन्तरविद्रधीनाञ्च लक्षणान्येव वातादिजवाह्यानाम् । क्षतजायास्तु-"तैस्तैर्भावरभिहते क्षते चापथ्यसेविनः । क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ॥ ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः। एष विद्रधिरागन्तुः पित्तविद्रधिलक्षणः। कृष्णस्फोटातः श्यावस्तीवदाहरुजाज्वरः। पित्तविधिलिङ्गस्तु रक्तविद्रधिरुच्यते॥” इति । कथमत्राचार्येण नोक्ता इति चेत् ? न । आभ्यन्तरविद्रधौ गुदजातविद्रध्या आर्त्तवजविद्रध्या वस्तिजायामन्तर्भावात् । वस्तिशब्देन वस्तिसामीप्यादगुदं वस्तिमुखञ्च गृह्यते। तत्र गुदजायां कृच्छपूतिवातवर्चस्वं वस्तिमुखजायां कृच्छाल्पपूतिमूत्रवच्चस्वमिति वस्तिजायां कृच्छपूतिमूत्रखमिति वचनस्य व्याख्यानम्। सुश्रुतेऽप्युक्तं-"गुदे वातनिरोधश्च वस्तौ कृच्छाल्पमूत्रता” इति। अत्रापि वातनिरोधः कृच्छवातवं तेनापि कृच्छवर्चस्वं गम्यते। रक्तजाभ्यन्तरविद्रध्याश्च रक्तजगुल्मेऽन्तर्भावाच । सप्ताहानन्तरपाकिखेन तदारम्भकवातजखेन वातजायामन्तर्भावाद्वा । आविष्कृततमखेन सूत्ररूपखेन वात्रानुक्तवदोषाभावाच। सर्वशो गुल्मवच्चोपक्रमेदित्युक्त्या गुल्मविद्रध्यन्यतरवेन विज्ञानादेरप्रयोजनस्य व्याधिनिवतनस्यानपायाच ॥५२॥
गङ्गाधरः-ननु सुश्रुते प्रमेहिकपिड़काव्यतिरिक्ताश्च दश पिड़का उक्ताः । कथमत्र माधुमेहिका एवेति ? अत आह-भवन्ति चात्रेति। विनेत्यादि । चक्रपाणिः-प्रमेहं विनाप्युफपिड़कासम्भवं दर्शयति-विनेत्यादि ।-एतेन च पिदकानां
m
For Private and Personal Use Only