________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१६
चरक-संहिता। [कियन्तःशिरसीयः मरणाय। शेषाः पुनः कुशलमाशुप्रतिकारिणं चिकित्सकम्
आसाद्योपशाम्यन्ति। तस्मादचिरोत्थितां विद्रधी शस्त्रसर्पविदुरदग्मितुल्यां स्नेहस्वेदविरेचनैश्चोपक्रमेत । सर्वशो गुल्मवच्चेति ॥ ५२ ॥ परिपका मरणाय। प्रागेवोत्पन्नमात्रं परमकुशलभिषजा आदो पार्क वारयितुकामेन गुणवता गुणवदातुरस्य चेदुपक्रान्ता न पक्त पार्यन्ते। तदा न मरणायेति-परिपक्का इति वचनेन शापितम्। सान्निपातिकी च पका चापका च यत्र तत्र जाता मरणाय। अत्रापि हन्नाभिवस्तिजा इत्येकवचनान्ततयानुवान्वेतव्यम्। पृथक् पाठात् परिपक्का इत्यस्य नानुवृत्तिः । सान्निपातिक्याः सामान्येनोक्त्या पकायाश्वासाध्यखोक्ताभात् । इदन्तु वचनं हृदयनाभिवस्तिजा सान्निपातिकी विद्रधी कुशलेनापि भिषजा गुणवदातुरस्य अप्यादौ पाकं वारयितुकामेनाप्युपक्रान्ता पच्यते । यदि वा कस्यचित् न पच्यते तदापि मरणायेति ख्यापनार्थमिति। शेषाः पुनरिति-परिपक्कहन्नाभिवस्तिजाभ्यः सान्निपातिक्याश्चान्या क्लोमयकृतप्लीहकुक्षिबुक्कवङ्खणजा वातादिजाः। हन्नाभिवस्तिजा अध्यपक्का वातादिजाः कुशलादिकं वैद्यमासाद्योप. शाम्यन्ति। कुशलमाशुप्रतिकारिणमिति विशेषणद्वयेन पुनरेतत् ख्यापितम । हन्नाभिवस्तिजा अपरिपका सर्ववातजादयः परिपका ऊद्ध मुखात् सुतिशीला असाध्याः सत्योऽपि कुशलेनोपक्रान्ताः शरीरवाद्यतो विदीर्णाश्चेदास्रावं स्रवन्ति न तु मुखात्, तदा कदाचिदुपशाग्यन्ति, इति ज्ञापितम् । सर्वासाञ्च कष्टसाध्यवमुक्तमिति। “हन्नाभिवस्तिजास्तु खलु वाह्य शरीरतः प्रभिन्ना अपि कुशलेनोपक्रान्ता न सिध्यन्ति" इति प्रवेमुक्तम। ___ तस्मादित्यादि। सर्वासामेव कष्टसाध्यखात् कष्टसादिकं दर्शयतिशस्त्रेत्यादि। शस्त्रवच्छेदकसम् । सर्पवदाशु संहारिखम् । विदुरदग्निवेंजामिः, तद्वदाशुमारकः। ननु सुश्रुते हृदयादिवदगुदजापि विद्रधी उक्ता। तद्यथा“गुवंसात्म्यविरुद्धान्न-शुष्कसंक्लिन्नभोजनात् । अतिव्यवायव्यायाम-वेगाघातविदाहिभिः ॥ पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम्। वल्मीकवत् सानिपातिकी पक्कामपक्काञ्चासाध्यां दर्शयति। शस्त्रादिदृष्टान्तत्रयात् शस्त्रवन्मम्मच्छेदकत्वं सर्पवदाशुसंज्ञाहारित्वं, वियदग्निवदाशुमारकत्वं ज्ञयम् ॥ ४६-५२॥
For Private and Personal Use Only