________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः ]
७१५
सूत्रस्थानम् । थासां विद्रधीनां साध्या साध्यत्वविशेषविज्ञानार्थं स्थानकृतलिङ्गविशेषमुपदेच्यामः । तत्र प्रधानमर्म्मजायां विद्रध्यां हृद्घट्टनतमकप्रमोहकासाः । क्लोमजायान्तु पिपासामुखशोषगलग्रहाः । यकृजायां श्वासः । प्रीहजायामुच्छ्रासोपरोधः । कुक्षिजायां कुक्षिपार्खान्तरांसशूलम् | बुकजायां पार्श्वपृष्ठकटीग्रहः * । नाभिजायां हिक्का । वणजायां सकथिसादः । वस्तिजायां कृच्छ्रपूतिमूत्रवच्चस्त्वम् । पक्कप्रभिन्नासूर्द्ध जासु मुखात् स्त्रावः अधोजासु तु गुदात् उभयतस्तु नाभिजासु । आसां हृन्नाभिवस्तिजाः परिपक्काः सान्निपातिकी च
1
ऽप्यस्ति । बहुशब्दो बहुत्ववाचकोऽपि यदातिशयार्थे प्रयुज्यते न तु संख्यायां तदैकवचनान्तोऽपि विशेष्यानुरूपलिङ्गवचन विभक्तिनियमात् विशेषणस्येति । वातजादीनां विद्रधीनां तिसृणां लक्षणस्रावावुक्त्वा तदतिदेशेनाधिकलक्षणस्रावाभावात् सान्निपातिकविद्रवेक्षणं सावञ्चाहलक्षणमित्यादि । लक्षणं सर्व्वमिति व्यधादिवात वेदनाविशेषतन्वादिस्रावविशेषो वातविद्रधेलेक्षणं तृष्णादितिलादुदकसन्निभस्रावौ पैत्तिकविद्रधेलेक्षणं जम्भादिवलश्वेतबहुपिच्छिलस्रावौ इलैष्मिक विद्रधेर्लक्षणं सर्व्वासाञ्च महच्छूलं शस्त्रवद्भेदनमुल्काग्रिदाहवर दाहश्च पकले वृश्चिकदंशनञ्चेत्येतत्सव्वलक्षणं सान्निपातिकी विद्रधी भजते ॥ ५१ ॥
गङ्गाधरः - अथेत्यादि । तत्र प्रधानममेति हृदयम् । तत्र जातायां तमकः श्वासविशेषः, प्रमोहोऽत्रेन्द्रियमात्रमोहः । यकृदित्यादि । कुक्षिपार्श्वन्तरांसशूलं कुक्षौ पार्श्वन्तरे असे भुजोपरिदेशे च शूलम् । पकप्रभिन्नासुद्ध जासु हृदय क्रोम यकृत्प्लीहकुक्षिषु जातासु मुखात् स्रावः । अधोजासु वङ्खणवस्तिजासु पकप्रभिन्नासु गुदात् । नाभिजासु उभयत इति मुखात् गुदाच्च । स्थानकृतलिङ्गविशेषप्रदर्शनप्रयोजनमाह - आसामित्यादि । हन्नाभिवस्तिजाः
प्रकाराः शीतमेव शीतकम्, व्यम्लतां याता विदाहं प्राप्ता । तमकः श्वासभेदः; कुक्षिपार्श्वान्तरांसशूलमिति कुक्षिपार्श्वान्तरांसेषु शूलम् । हन्नाभिवस्तिजासु सान्निपातिकीं पृथक् पठन्,
* पृष्ठकोटिग्रहः इति पाठान्तरम् ।
For Private and Personal Use Only