________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१४
चरक-संहिता। [कियन्तःशिरसीयः दुष्टरक्तातिमात्रत्वात् स वै शीघ्र विदह्यते। ततः शीघ्रविदाहित्वाद विद्रधीत्यमिधीयते ॥४८॥ व्यधच्छेदभ्रमानाह-शब्दस्फुरणसपणैः। वातिकी पैत्तिकी तृष्णा-दाहमोहमदज्वरैः॥ जम्भोत्क्लेशारुचिस्तम्म-शीतकैः श्लैष्मिकी विदुः । सर्वासु तु महच्छ्रलं विद्रधीपूपजायते ॥ ४६॥ शस्त्रास्त्रभिद्यत इव चोल्ककैरिव दह्यते। विद्रधी व्यम्लतां याता वृश्चिकैरिव दश्यते ॥ ५० ॥ तनु रुक्षारुणं श्यावं फेनिलं वातविद्रधी। तिलमाषकुलत्थोद-सन्निभं पित्तविद्रधी॥ श्लैष्मिकी स्रवति श्वेतं बहलं पिच्छिलं बह।
लक्षणं सर्वमेवैतद भजते सान्निपातिकी ॥५१॥ हृदये इत्यादि। क्लोनीति कण्ठोरसोः सन्धिरूपे स्थाने यत् परिशोपात् पिपासा भवति। कुक्षावुदरगहरे। वुकयोवेक्षोऽधःपाश्वयोः । संहतरूपोग्रन्थिः। शीघ्र विदह्यते पच्यत इत्यर्थः । शीघ्रविदाहिखाद्विद्रधीति पृषोदरादिखात रूपसिद्धिः ॥४७॥४८॥
गङ्गाधरः- तस्य लक्षणमाह-व्यधेत्यादि। व्यधो विद्धवत् पीडा। छेदः क्षुद्रखड्गादिच्छेदनवत् पीड़ा। भ्रमो घूर्णनवत् पीडा। आनाहो मलविवद्धता। शब्दस्फरणसर्पणानि तु विद्रधौ। एतैय॑धादिभिः सर्पणान्तर्वातिकी विधीम्, तृष्णादिभिज्वरान्तैः पैत्तिकीम, जम्भेत्यादिभिः श्लैष्मिकी विदुः। शीतमेव शीतकम् । सर्वासु विद्रधीषु सामान्यलक्षणं महच्छूलम् ॥४९॥
गङ्गाधरः-पक्कलक्षणमाह - शस्त्रेत्यादि । शस्त्रविशेषेण भेदच्छेदवत् पीडा । उल्काग्निदाहवद् दाहश्च । इति वातादिनविद्रधेः पहाया लक्षणम्। विद्रधी व्यम्लतां पकतां याता पृश्चिकैरिव दश्यत इति पकवलक्षणम् ॥५०॥
गङ्गाधरः-विदीर्णखे च पूयसावभेदं दर्शयति तन्वित्यादि। तन्वित्यादिना स्रावलक्षणम् । तिलादीनां प्रत्येकमुदशब्दस्यान्वयः। उदकार्थे दुवदनशब्दोअन्तःशरीर इति कोष्ठ, मला दोषाः, प्रन्थिरिव ग्रान्थः। स इति प्रन्थिः ; व्यधादयो व्यथा
For Private and Personal Use Only