________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः !
सूत्रस्थानम् ।
विद्रधिं द्विविधामाहुर्वाद्यामाभ्यन्तरी तथा । वाह्यात्वकस्नायुमांसोत्था कण्डराभा महारुजा ॥ ४६ ॥ शीतकान्नविदाहुाष्ण-रुचशुष्कातिभोजनात् । विरुद्धाजीर्णसंक्लिष्ट विषमासात्म्य भोजनात् ॥ व्यापन्नबहुमद्यत्वाद वेगसन्धारणाच्छ्रमात् । जिह्मव्यायामशयनादतिभाराध्वमैथुनात् ॥ अन्तःशरीरे मांसाक प्रविशन्ति यदा मलाः । तदा संजायते ग्रन्थिर्गम्भीरस्थः सुदारुणः || हृदये क्लोनि कृति प्लीहि कुक्षौ च बुकयोः नाभ्यां वयोर्वापि वस्तौ वा तीव्रवेदनः ॥४७॥
गङ्गाधरः - विद्रधिमित्यादि । विद्रधिमित्यादिना विद्रधिः । अस्यास्तु द्वैविध्येऽपि विद्रधिवसामान्यात् पिडकानां न सप्तत्वव्याघात इति । त्वक्स्नायुमांसोत्था यतो गम्भीरधातुसमुत्था । तस्माद्वाह्या कण्डराभा स्थूलस्नायु
For Private and Personal Use Only
७१३
प्रकारा ।। ४६ ।।
गङ्गाधरः- वाह्याभ्यन्तरविद्रव्योर्वातादिजविद्रधितुल्यलक्षणत्वेऽपि आभ्यन्तरविद्रधर्वाह्मविद्रधितो गरिष्टत्वेनान्तरविद्रधीमुपलक्ष्योपदेष्ट तन्निदानमाह - शीतकेत्यादि । arantaratri प्रत्येकमतिभोजनेत्यनेनान्वयः । विरुद्धादीनाञ्च प्रत्येकं योजनेत्यनेनान्वयः । संक्लिष्टं दोषलम् | व्यापन्नं गुणसम्पद्रहितम् । बहु पीतं मदं येन तस्य भावः तस्मात् व्यापन्नबहुमद्यखात् । जिह्म कोटिल्येनाचरितं व्यायामशयनं व्यायामश्च शयनञ्श्च तत् तस्मात् । अतिशब्दस्य भारादिभिः प्रत्येकमन्वयः । अन्तःशरीरे शरीराभ्यन्तरे । मांसासृक् मांसञ्चाक् च तद्द्वयमभ्यन्तरे यदस्ति यदा तदेव प्रविशन्ति मला वातपित्तकफास्तदा ग्रन्थिग्रन्थिरिवाकृत्या गम्भीरस्थः अत्यन्तावगाढमूलः सुदारुणः कष्टदो जायते । अभ्यन्तर उत्पत्तिस्थानान्याह -
चक्रपाणि:- विधिं द्विविधामित्यनेनाभ्यन्तरविद्रधेरपि विद्रधित्वेन पिड़कानां सप्तत्वेविरोध इति दर्शयति ; कण्डराभा स्थूलस्नाय्वाकारा । अन्तर्विद्वधेर्गरीयस्त्वेन निदानान्याह - शीतकेत्यादि । संक्लिष्टं दोपलम्, व्यापन्नञ्च बहु च मद्यमुपयुक्त यः स व्यापन्न बहुमद्यः । ९०