________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१२
चरक-संहिता। कियन्तःशिरसीयः अन्तोन्नता मध्यनिम्ना श्यामा क्लदरुगन्विता। शराविका स्यात् पिड़का शरावाकृतिसंस्थिता ॥ ४० ॥ अवगाढ़ार्तिनिस्तोदा महावास्तुपरिग्रहा। श्लदणा कच्छपपृष्ठाभा पिड़का कच्छपी मता ॥४१॥ स्तब्धा सिराजालवतो स्निग्धस्रावा महाशया। रुजा निस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी ॥ ४२ ॥ पिड़का नातिमहती निप्रपाका महारुजा। सर्षपी सर्षपाभाभिः पिड़काभिश्चिता भवेत् ॥ ४३॥ दहति त्वचमुत्थाने तृष्णामोहज्वरप्रदा। विसर्पत्यनिशं दुःखाद दहत्यग्निरिवालजी॥ ४४ ॥ अवगाढ़रुजालंदा पृष्ठे वाप्युदरेऽपि वा। महती विनता नीला पिड़का विनता मता ॥ ४५ ॥
गङ्गाधरः-शराविकालक्षणमाह-अन्तोन्नतेत्यादि । स्पष्टम् ॥४०॥ गङ्गाधरः-अवगाढेत्यादि। अवगाढ़ेत्यादिना कच्छपिका ॥४१॥
गङ्गाधरः-स्तब्धेत्यादि। स्तब्धेत्यादिना जालिनी सिराजालवती जाला. कारेण सिरासमूहवती। ततो जालिनीति संज्ञा ॥ ४२ ॥
गङ्गाधरः-पिडकेत्यादि। सर्पपी सपाभाभिः पिडकाभिश्चिताऽधिष्ठिता व्याप्तेत्यर्थः । तेन सर्पपीति संज्ञा ॥४३॥
गङ्गाधरः-दहतीत्यादि। दहतीत्यादिनालजी। खचं चर्म। उत्थान पिडकोद्गमकाले । विसर्पति स्थानात् स्थानान्तरं व्रजति ॥४४॥
गङ्गाधरः--अवगादेत्यादि। अवगाढरुजेत्यादिना विनता विनम्रभावमापन्ना विनता ततो विनता संज्ञा मता ॥४५॥
शराविकादि-संज्ञान्वयो विवरणे स्फुटः । अलजीसंज्ञा रूदा ; एताश्च प्राधान्यादुक्ताः ; तेन सुश्रुते. ऽपि पिड़काधिक्यमुक्त यत्, तन्न विरोधि । शिराजालं शिरासमूहः, चिताऽधिष्ठिता ॥३४-४५॥
For Private and Personal Use Only